श्रीशारदादेवीनवकम्
श्री शारदेश्वरि महेश्वरि मुक्तिदात्रि
योगेश्वरार्चितपदे जगदेकवन्द्ये ।
श्रीरामकृष्णवरशिष्य नते दयार्द्रे
याचेऽम्ब देवी ! चरणाश्रय भक्तिभिक्षाम् ॥ १॥
संसारदावानल दग्धचित्ता
ये चापि दीनाः कुजना भवन्तु ।
स्मृत्वैकवारं तव पुण्यनाम
अहोऽद्भुतं भागवता भवन्ति ॥ २॥
भो मानवाः ! शृणुत कुत्र वृथा भ्रमन्तः
संसारघोरमरुभूमि मरीचिकाभ्यः ।
मातुः पदाम्बुजरुहमेव समाश्रयन्त
आमुष्मिकैहिकफलं परमं लभध्वम् ॥ ३॥
मातरः सन्ति लोकेषु बह्व्यः कारुण्यमूर्तयः ।
क्षुधार्तैरेव संसेव्या न हि मुक्तिप्रदा हि ताः ॥ ४॥
भुक्तिमुक्तिप्रदात्री तु त्वमेका भक्तवत्सले ।
कुत्र वा तव वात्सल्य सादृश्यं परिदृश्यते ॥ ५॥
विद्यां न याचे, विभवं न याचे
सिद्धिं न ऋद्धिं न वरं च जन्म ।
परन्तु याचे, तव देवी पाद-
पद्मेऽचलां भक्तिमहैतुकीं च ॥ ६॥
परहंसार्चिते देवि तस्य शिष्यैः सुसेविते ।
अल्पयाप्यनया स्तुत्या प्रसन्ना भव सर्वदा ॥ ७॥
विदग्धानां विशिष्टैश्च स्तुतिः कृताप्यनेकशः ।
प्रयासोऽयं कृतो देवि वृथा मा भूत् वार्पिताः ॥ ८॥
विदितं मातरो लोके प्रनन्दन्ति विशेषतः ।
अल्पार्थाभिश्च ऋज्वीभिः सरलाभिः शिशूक्तिभिः ॥ ९॥
इति स्वामिअमृतानन्दविरचितं ``श्रीशारदानवकम्'' सम्पूर्णम् ।
Proofread by Aruna Narayanan