शारदादेवीध्यानम्
ध्यायेद् हृदम्बुजे देवीं, तरुणारुणविग्रहाम् ।
वराभयकरां शान्तां, स्मितोत्फुल्लमुखाम्बुजाम् ॥ १॥
स्थलपद्म-प्रतीकाश-पादाम्भोजसुशोभनाम् ।
शुक्लाम्बरधरां धीरां, लज्जापट-विभूषिताम् ॥ २॥
प्रसन्नां धर्मकामार्थ-मोक्षदां विश्वमङ्गलाम् ।
स्वनाथवामभागस्थां भक्तानुग्रहकारिणीम् ॥ ३॥
श्वेतपद्मासनां देवीं सारदां शारदोपमाम् ।
अभयां वरदां नित्यां मातृ-विग्रहधारिणीम् ॥ ४॥
इति शारदादेवीध्यानं सम्पूर्णम् ।
Proofread by Aruna Narayanan