श्रीशारदादेवीध्यानम्
ध्यायेच्चित्तसरोजस्थां सुखासीनां कृपामयीम् ।
प्रसन्नवदनां देवीं द्विभुजां स्थिरलोचनाम् ॥ १॥
आलुलायितकेशार्धवक्षःस्थलविमण्डिताम् ।
श्वेतवस्त्रावृतार्धाङ्गां, हेमालङ्कारभूषिताम् ॥ २॥
स्वक्रोडन्यस्तहस्तां च ज्ञानभक्तिप्रदायिनीम् ।
शुभ्रां ज्योतिर्मयीं जीवपाप सन्तापहारिणीम् ॥ ३॥
रामकृष्णगतप्राणां तन्नामश्रवणप्रियाम् ।
तद्भावरञ्जिताकारां जगन्मातृस्वरूपिणीम् ॥ ४॥
जानकीराधिकारूपधारिणीं सर्वमङ्गलाम् ।
चिन्मयीं वरदां नित्यां शारदां मोक्षदायिनीम् ॥ ५॥
प्रणामः-
ॐ यथाग्नेर्दाहिकाशक्तिः रामकृष्णे स्थिता हि या ।
सर्वविद्यास्वरूपां तां, शारदां प्रणमाम्यहम् ॥
इति शारदानन्दस्वामिविरचितं ``श्रीशारदादेवीध्यानम्'' सम्पूर्णम् ।
Proofread by Aruna Narayanan