श्रीसत्यसङ्कल्पतीर्थस्तुतिः
मन्त्राक्षताप्रदानेने श्रियःपत्याभिधैर्बुदैः ।
द्युमणिं कारयामास सत्सङ्कल्पो भवेन्मुदे ॥ १॥
क्षमकाले करजिग्यां द्वादशाब्दं तपश्चरन् ।
अन्नदानं च यश्चक्रे सत्सङ्कल्पो भवेन्मुदे ॥ २॥
महीशूर महाराज प्रार्थनानुगुणं च यः ।
महीशूरपुरावासः सत्सङ्कल्पो भवेन्मुदे ॥ ३॥
सत्यसन्तुष्टतीर्थेभ्यो ददौ तुराश्रमं च यः ।
तत्संसेवितपादाब्जः सत्सङ्कल्पो भवेन्मुदे ॥ ४॥
हरिपादोद्भवा गङ्गा पावनी यस्य सन्निधौ ।
दृश्यतेऽद्यापि तद्भक्तैः सत्सङ्कल्पो भवेन्मुदे ॥ ५॥
गुरुराजाभिधो विप्रः गुत्तलान्वयजः सुधीः ।
यत्सेवया यतिर्भूत सत्सङ्कल्पो भवेन्मुदे ॥ ६॥
यो भक्त्या भजते नित्यं सत्यसङ्कल्पसद्गुरुन् ।
श्लोकषट्कं पठन् यस्य शत्रुषट्कजयो भवेत् ॥ ७॥
इति श्रीमत्सत्यात्मतीर्थविरहिता श्रीसत्यसङ्कल्पतीर्थस्तुतिः समाप्ता ।
॥ श्रीकृष्णार्पणमस्तु ॥