श्रीसत्यबोधस्तोत्रम्
श्रीसत्यबोधो निजकामधेनुर्मायातमःखण्डनचण्डभानुः ।
दुरन्तपापप्रदहे कृशानुर्देयान्ममेष्टं गुरुराजसूनुः ॥ १॥
श्रीसत्यबोधेतिपदाभिधानः सदा विशुद्धात्मधिया समानः ।
समस्तविद्वन्निचयप्रधानो देयान्ममेष्टं विबुधान् दधानः ॥ २॥
रमाधिनाथार्हणवाणिजानिः स्वभक्तसंप्रापितदुःखहानिः ।
लसत्सरोजारुणनेत्रपाणिर्देयान्ममेष्टं शुभदैकवाणिः ॥ ३॥
भक्तेषु विन्यस्तकृपाकटाक्षो दुर्वादिविद्रावणदक्षदीक्षः ।
समीहितार्थार्पणकल्पवृक्षो देयान्ममेष्टं कृतसर्वरक्षः ॥ ४॥
श्रीमध्वदुग्धाब्धिविवर्धचन्द्रः समस्तकल्याणगुणैकसान्द्रः ।
निरन्तराराधितरामचन्द्रो देयान्ममेष्टं सुधियां महेन्द्रः ॥ ५॥
निरन्तरं यस्तु पठेदिमां शुभां श्रीश्रीनिवासार्पितपञ्चपद्यीम् ।
तस्य प्रसीदेत् गुरुराजहृद्गः सीतासमेतो नितरां रघूत्तमः ॥ ६॥
॥ इति श्रीनिवासाचार्य जगन्नाथदासकृतं श्रीसत्यबोधस्तोत्रं सम्पूर्णम् ॥