सर्वसमर्पणगद्यम्
ॐ जाग्रत्स्वप्नसुषुप्त्याख्य-अवस्थात्रयनियामक, मदन्तर्यामि मुख्यप्राणान्तर्गत विश्व-तैजस-प्राज्ञात्मक,
हिङ्कारादिषट्सामप्रतिपाद्य षट्कालनियामक, अनिरुद्ध-प्रद्युम्न-सङ्कर्षण-वासुदेव-वराह-नारसिंह-षण्मूर्त्यात्मक,
स्वहृदयमध्यस्थित-सुषुम्नानाडीदक्षिणपार्श्वस्थित-पञ्चाशत्सङ्ख्याक-पिङ्गळानाडीषु तदुत्तरपार्श्वस्थित-
तावत्सङ्ख्याक-व्यञ्जनवर्णप्रतिपाद्य-तावत्सङ्ख्याकेडानाडीषु तत्तद्योग्य-तत्तत्कालानुसारप्राप्त-तत्तन्नाडीस्थित-बृहतीछन्द-ऋक्सहस्रगत-षट्त्रिंशत्सहस्र-स्वराख्याक्षरप्रतिपाद्य तन्निष्ठ- तन्नियामक-प्रातर्माध्यन्दिनसायमाख्य-सवनत्रय-तत्तत्कालीन-तदभिमानि-वसुरुद्रादित्योपास्य-परमाणुसम्बन्धि-तावत्सङ्ख्याक-अहर्नियामक-अहर्नामक मुख्यप्राणोपास्य-रमायुक्त-पुरुषरूपात्मक प्रादेशमात्रहृदयव्यापक-प्रादेशपरिमितस्थानेशात्मक देहान्तर्गत-देहाङ्गुष्ठपरिमित-जीवान्तर्गत जीवाङ्गुष्ठपरिमित स्वहृदयकमलकर्णिकामूलस्थित-मूलेशात्मक तावत्परिमितकर्णिकाग्रस्थित-बिम्बरूपे जीवेशत्वदृष्ट्याऽनादिकालतः प्राप्तमदीयशुभाशुभकर्मणोर्मध्ये
शुभकर्मानुसारतस्तत्प्रेरितेन मुख्यप्राणेन, तत्त्वाभिमानिदेवताद्वाराऽनुकारित-अवस्थात्रयनियामक-अनुभवकालघटित-श्रीविष्णुस्वातन्त्र्य-स्मृतिप्रदानक नित्य-नैमित्तिक-काम्यभेदेन त्रिविधविद्याश्रित-स्ववर्णाश्रमोचितसङ्कल्पित-भगवत्पूजात्मक कर्मफलजन्यफलेन-अपरोक्षज्ञानात् पूर्वमन्तःकरणशुद्धिद्वारा
तदुपासकेन ततः परं भगवदिच्छया प्राप्त निजगुरूपदिष्ट-स्वबिम्बविषयक-पूर्णसच्चिदानन्दात्मक चतुर्गुणाद्युपासन-जिज्ञासाद्युपासादिभिः स्वबिम्बापरोक्षज्ञानोत्पादकेन मनुष्योत्तमानामारभ्य चतुर्मुखपर्यन्तानां पञ्चविधमुक्तियोग्यानां च स्वबिम्बोपासिभिः लिङ्गापगमे स्वरूपानन्दाविर्भाव-वैचित्र्यानन्दप्रदज्ञानेन त्वयि समर्पितेन त्वत्पूजैवास्तु ।
तथा मदीयशुभाशुभ-कर्मणोर्मध्ये-अशुभकर्मानुसारेण त्वत्प्रेरितमुख्यप्राणेन तत्त्वाभिमानि-असुरमारभ्य कलिपर्यन्तानां तमोयोग्यानां पापबाधिभिर्गदायुधप्रदानेन महातमसि-स्थितानां दुःखानुभवेन स्वरूपभूतदुःखातिशयप्रदातेति ज्ञानेन त्वयि समर्पितेन त्वत्पूजैवास्तु ॥
इति श्रीराघवेन्द्राख्ययतिना विरचितं सर्वसमर्पणगद्यं सम्पूर्णम् ।
Proofread by Aruna Narayanan