सर्पसूक्तम् १
नमोऽस्तु सर्पेभ्यो ये के च पृथिविमनु ।
ये अन्तरिक्षे ये दिवि तेभ्यः सर्पेभ्यो नमः ॥ १॥
येऽदो रोचने दिवो ये वा सूर्यस्य रश्मिषु ।
येषामप्सूषदः कृतं तेभ्यः सर्पेभ्यो नमः ॥ २॥
या इषवो यातुधानानां ये वा वनस्पतीम्+ रनु ।
ये वाऽवटेषु शेरते तेभ्यः सर्पेभ्यो नमः ॥ ३॥
ऋग्वेद खिलानि (२.१४)
स्वप्नस्स्वप्नाधिकरणे सर्वं निष्वापया जनम् ।
आ सूर्यमन्यांस्त्वापयाव्युषं जाग्रियामहम् ॥ ४॥
अजगरोनाम सर्पः सर्पिरविषो महान् ।
तस्मिन्हि सर्पस्सुधितस्तेनत्वा स्वापयामसि ॥ ५॥
सर्पस्सर्पो अजगरसर्पिरविषो महान् ।
तस्य सर्पात्सिन्धवस्तस्य गाधमशीमहि ॥ ६॥
कालिको नाम सर्पो नवनागसहस्रबलः ।
यमुनाह्रदेहसो जातो यो नारायण वाहनः ॥ ७॥
यदि कालिकदूतस्य यदि काः कालिकात् भयात् ।
जन्मभूमिमतिक्रान्तो निर्विषो याति कालिकः ॥ ८॥
आयाहीन्द्र पथिभिरीलितेभिर्यज्ञमिमन्नो भागदेयञ्जुषस्व ।
तृप्तां जुहुर्मातुलस्ये वयोषा भागस्थे पैतृष्वसेयीवपामिव ॥ ९॥
यशस्करं बलवन्तं प्रभुत्वं तमेव राजाधिपतिर्बभूव ।
सङ्कीर्णनागाश्वपतिर्नराणां सुमङ्गल्यं सततं दीर्घमायुः ॥ १०॥
कर्कोटको नाम सर्पो योद्वष्टी विष उच्यते ।
तस्य सर्पस्य सर्पत्वं तस्मै सर्प नमोऽस्तुते ॥ ११॥
सर्पगायत्री -
भुजङ्गेशाय विद्महे सर्पराजाय धीमहि ।
तन्नो नागः प्रचोदयात् ॥ १२॥
नमो॑ अस्तु स॒र्पेभ्यो॒ ये के च॑ पृथि॒वीमनु॑ ।
ये अ॒न्तरि॑क्षे॒ ये दि॒वि तेभ्यः॑ स॒र्पेभ्यो॒ नमः॑ ॥
ये॑ऽदो रो॑च॒ने दि॒वो ये वा॒ सूर्य॑स्य र॒श्मिषु॑ ।
येषा॑म॒प्सु सदः॑ कृ॒तं तेभ्यः॑ स॒र्पेभ्यो॒ नमः॑ ॥
या इष॑वो यातु॒धाना॑नां॒ ये वा॒ वन॒स्पती॒ꣳ॒रनु॑ ।
ये वा॑ व॒टेषु॒ शेर॑ते॒ तेभ्यः॑ स॒र्पेभ्यो॒ नमः॑ ॥ ४। २। ८॥
तैत्तिरीयसंहिता
First three are from Taittiriya Samhita 4.2.8
Number 4-11 are from Rigveda Khilas AdhyAya 2 14
related to Mandala 7-3
Proofread by PSA Easwaran