सपार्षदश्रीरामकृष्णप्रणामः
नारायणं परं नित्यमजोऽपि चाव्ययोऽपि सन् ।
आविर्भूतं जगत् त्रातुं रामकृष्णं नमाम्यहम् ॥ १॥
अजाऽपि या न छिन्नापि भिन्नरूपेण रूपिताम् ।
जननीं सर्वभूतानां शारदां प्रणमाम्यहम् ॥ २॥
लीलासहचरं श्रेष्ठं धर्मचक्रप्रवर्तकम् ।
वन्दे तं सङ्घनेतारं विवेकानन्द-स्वामिनम् ॥ ३॥
सङ्घस्य प्रथमाध्यक्षं गोपालं ब्रजवासिनम् ।
राखालं मानसं पुत्रं ब्रह्मानन्दं नमाम्यहम् ॥ ४॥
रामकृष्णपदं शान्तं शिवमद्वैतमव्यम् ।
ददर्श सततं यं तं शिवानन्दं नमाम्यहम् ॥ ५॥
नमामि शारदानन्दं ``लीलाप्रसङ्ग'' ---लेखकम् ।
तत्त्वतः वर्णितः यस्मिन् रामकृष्णस्य जीवनम् ॥ ६॥
रामकृष्णगतप्राणं रामकृष्णस्य पूजकम् ।
लीलाप्रवर्धकं रामकृष्णानन्दं नमाम्यहम् ॥ ७॥
लीलासहचरं शुद्धं शारदापदसेवकम् ।
नित्यमुक्तं सदाशान्तं योगानन्दं नमाम्यहम् ॥ ८॥
मातृवत्सर्वभूतेषु प्रेमवात्सल्यविग्रहम् ।
अहेतुकं प्रशान्तं च प्रेमानन्दं नमाम्यहम् ॥ ९॥
निरञ्जनं सदा मुक्तं पवित्रं मातृसेवकम् ।
वन्दे निरञ्जनानन्दं रामकृष्णपदाश्रितम् ॥ १०॥
अनाथेषु तथार्त्तेषु सर्वदा शिवपूजकम् ।
नमामि निर्मलं सुज्ञमखण्डानन्द-स्वामिनम् ॥ ११॥
उद्बोधनादिरूपेण कृत्वा जीवप्रबोधनम् ।
वन्दे तं त्रिगुणातीतं येन प्राणार्पणं कृतम् ॥ १२॥
वेदान्तशास्त्रमर्मज्ञं योगिनं च मनीषिणम् ।
रामकृष्णानतं वन्दे तुरीयानन्द-स्वामिनम् ॥ १३॥
व्याख्यानकुशलं वन्दे सर्ववेदान्तबोधकम् ।
कालीतपस्विनं पूज्यमभेदानन्दस्वामिनम् ॥ १४॥
भक्तः सुकर्मयोगी च बालभावसमायुतम् ।
तं भक्तवत्सलं वन्दे सुबोधानन्द-स्वामिनम् ॥ १५॥
अज्ञं निरक्षरं चापि ह्यक्षरं येन दर्शितम् ।
वन्दे तमद्भुतानन्दं सरलं शुद्धमानसम् ॥ १६॥
नमामि वृद्धगोपालं शारदाप्रियसेवकम् ।
अद्वैतानन्दरूपेण भक्तवृन्दैः सुपूजितम् ॥ १७॥
निर्मितं सुन्दरं येन रामकृष्णस्य मन्दिरम् ।
कर्मवीरमहं वन्दे विज्ञानानन्द-स्वामिनम् ॥ १८॥
रामकृष्णांशकान् सर्वान् भिन्नरूपैश्च रूपितान् ।
लीलासहचरान् वन्दे नाना भाव-प्रदर्शकान् ॥ १९॥
लीलासहचरान् सर्वान् युगधर्मस्य स्थापकान् ।
शारदा-रामकृष्णौ च भूयो भूयो नमाम्यहम् ॥ २०॥
इति स्वामिबलरामानन्दविरचितः ``सपार्षदश्रीरामकृष्णप्रणामः'' समाप्तः ।
Proofread by Aruna Narayanan