श्रीसन्तदासाष्टकम्
(श्री लक्ष्मीमिश्रविरचितं)
शरदिन्दु-कुन्द-तुषार-हार-पवीर-पारदसुन्दरं
जप-मालिका-मणि-पद्मपाणिमशेषलोकहितैषिणम् ।
कुलमौलिमादिगुरुं जटामुकुटादिभूषणभूषितं
प्रणमामि सम्प्रति ``सन्तदास''मिहैव दर्शितविष्णुकम् ॥ १॥
शुमनिम्बभानुपथानुगं हरिभक्तिपरायणं शिवं
बहुलानुरागनिवासरासविलासदर्शनरागिणम् ।
रमणीय वेणुनिनाद-वादविवाद-संश्रवणे रुचिम्,
प्रणमामि सम्प्रति ``सन्तदास''मिहैव दर्शितविष्णुकम् ॥ २॥
शिवब्रह्मविष्णुप्रपूजकं निजभक्तिरक्षितसाधकं
नवसिद्धयोगीमुनीन्द्रवन्दितनिम्ब भानुकुलोद्भवम् ।
करुणालयं हि उदारता करशान्तदान्त-सुमन्दिरं
प्रणमामि सम्प्रति ``सन्तदास''मिहैव दर्शित विष्णुवम् ॥ ३॥
सकलां विहाय स्वसम्पदं मुरारिपादसमाश्रितं
जगतां स्वकीयविशुद्धमार्गप्रदर्शकं हरिसेवकम् ।
कलिकल्मषघ्नमशेषसद्गुणसागरं नरनागरं
प्रणमामि सम्प्रति-``सन्तदास''मिहैव दर्शित विष्णुकम् ॥ ४॥
सनकादिकैर्मुनिभिः प्रदर्शितपद्धतौ पथिकं स्थिरं
जगतीतलैक-सुवाटिका हृदिकञ्जकुड्मलषटपदम् ।
वृषभानुजाप्रियपद्मरेणुसितं हितं सुललाटकं
प्रणमामि सम्प्रति ``सन्तदास''मिहैव दर्शितविष्णुकम् ॥ ५॥
यमुनातरङ्गसमाकुले पुलिने विहारपरायणं
निजधर्मकर्मपथे स्थितं प्रथितं विचारप्रवाहने ।
सततं सुसेवितसज्जनं जनतां सुधीर-प्रचारकं
प्रणमामि सम्प्रति ``सन्तदास''मिहैव दर्शित विष्णुकम् ॥ ६॥
गुरुपादपद्मरजःकणैर्विमलीकृतं सुललाटकं
मुनिमण्डलीनदराजहंसमसङ्ख्यशिष्यसुसेवितम् ।
हरिनामपावनसागरं ब्रजधूलिभूषणभूषितं
प्रणमामि सम्प्रति ``सन्तदास''मिहैव दर्शित विष्णुकम् ॥ ७॥
निजसम्प्रदायसमुन्नतौ यतमानमामरणं परं
जगतीतलैकसुधाकरं निजभक्तजनैक सुरक्षकम् ।
कलिकल्मषोत्कटतापनं भवसागरात् परित्राणदं
प्रणमामि सम्प्रति ``सन्तदास''मिहैव दर्शितविष्णुकम् ॥ ८॥
भक्तिमान् यः पठेन्नित्यं सन्तदासाष्टकं शुभम् ।
ऐहिकं हि सुखं भुक्त्वाचान्ते मोक्षमवाप्नुयात् ॥
भक्तिदं वैष्णवाणां च मुमुक्षूणां च मोक्षदम् ।
सन्तदासाष्टकं श्रुत्वा नरः सद्गतिमाप्नुयात् ॥
इति श्रीलक्ष्मीमिश्रविरचितं श्रीसन्तदासाष्टकं सम्पूर्णम् ।
Proofread by Mohan Chettoor