सद्गुरुमङ्गलाष्टकम्
ॐ
। श्रीरामजयम् ।
। ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः ।
अथ सद्गुरुमङ्गलाष्टकम् ।
सङ्गीतप्राणमूलाय सप्तस्वराधिवासिने ।
षड्जाधारश्रुतिस्थाय सदाचार्याय मङ्गलम् ॥ १॥
ऋषभारूढगेयाय रिपुसूदनगीतये ।
ऋषिश्रेष्ठसुगीताय रिक्थगीताय मङ्गलम् ॥ २॥
गङ्गापावनगानाय गम्भीरस्वरभाषिणे ।
गान्धर्वगानलोलाय गभीराय सुमङ्गलम् ॥ ३॥
मङ्गलं गुरुनाथाय मङ्गलानन्दकीर्तये ।
मङ्गलस्वरसाराय मङ्गलस्वाय मङ्गलम् ॥ ४॥
पञ्चमस्वरगेयाय परिपूर्णस्वराब्धये ।
पाथोधिरागरङ्गाय परार्थाय सुमङ्गलम् ॥ ५॥
धन्याय धन्यसेव्याय धैवत्यधैर्यदायिने ।
ध्याताय ध्यानगम्याय ध्यातरूपाय मङ्गलम् ॥ ६॥
निषादस्वरमिष्टाय निशादिनस्मृताय च ।
निर्वाणफलदात्रे च नित्यानन्दाय मङ्गलम् ॥ ७॥
सप्तस्वराधिनाथाय सङ्गीतकृतिसेविने ।
सद्गुरुत्यागराजाय पुष्पार्चिताय मङ्गलम् ॥ ८॥
मङ्गलं त्यागराजाय मदाचार्यवराय च ।
मङ्गलं रामभक्ताय मङ्गलं ज्ञानतेजसे ॥
मङ्गलं त्यागराजाय मदाचार्यवराय च ।
मङ्गलं नादयोगाय मङ्गलं सर्वसिद्धये ॥
मङ्गलं त्यागराजाय मदाचार्यवराय च ।
मङ्गलं ज्ञानदेवाय मङ्गलं मोक्षसिद्धये ॥
ॐ तत्सदिति श्रीत्यागरामपुष्पावलीनामपुष्पकदम्बकं
गुरुस्फूर्तिस्पुटं गुरुप्रीतं गुरुसान्निध्ये समर्पितम् ।
ॐ
शुभमस्तु ।
Encoded and proofread by N V Vathsan nvvathsan at gmail.com
Copyright Pushpa Srivatsan