श्रीसारदानवकम्
सर्व सौभाग्य-सन्दोहे ब्रह्मानन्द-पयस्विनि ।
रामकृष्णार्चिते शुद्धे सारदे त्वां नमाम्यहम् ॥ १॥
विवेकानन्दसन्ध्येयां क्षमारूपां तपस्विनीम् ।
सारदां दिव्यभूषां त्वां नारायणि स्मराम्यहम् ॥ २॥
माहेशि महदाराध्ये चित्प्रेमानन्दसम्प्रदे ।
सारदे जगतामाद्ये नारायणि नमोऽस्तुते ॥ ३॥
महापुरुषसंसेव्ये हंसेश्वरि सुमङ्गले ।
शिवानन्दप्रदे मातः सारदे त्वामहं भजे ॥ ४॥
सारदानन्दसम्पूज्ये वरेण्ये सारदायिके ।
प्रसन्नवदनाम्भोजे सारदे त्वां नतोऽस्म्यहम् ॥ ५॥
विमले कमले सीते शारदे सारदे शिवे ।
कलिकल्मषपापघ्ने कात्यायनि नमोऽस्तुते ॥ ६॥
यतिसङ्घसमाराध्ये यतिसङ्घ-सुहासिनि ।
तत्सङ्घत्राणदात्री त्वं सारदे त्वां नता वयम् ॥ ७॥
सारदे वरदे मातर्ब्रह्मशक्ति सनातनि ।
निष्कलङ्क-सुचरित्रं भक्तिमन्तं कुरुष्व माम् ॥ ८॥
सर्वोत्कृष्ट-गुणाधारे गुणाढ्ये सर्वसाधिके ।
शरण्ये सारदे दुर्गे नारायणि नमोऽस्तुते ॥ ९॥
(जय) नारायणि नमोऽस्तु ते, नारायणि नमोऽस्तु ते ।
नारायणि नमोऽस्तु ते, नारायणि नमोऽस्तु ते ॥
इति श्रीसारदानवकं सम्पूर्णम् ।
Proofread by Aruna Narayanan