रत्नत्रयपरीक्षा
नित्यं निर्दोषगन्धं निरतिशयसुखं ब्रह्मचैतन्यमेकं
धर्मोधर्मोतिरूपद्वयमयति पृथग्भूय मायावशेन ।
धर्मस्तत्रानुभूतस्सकलविषयिणी सर्वकार्यानुकूला
शक्तिश्चेच्छादिरूपा भवति गुणगणश्चाश्रयस्त्वेक एव ॥ १॥
वेदज्ञा धर्ममेतं प्रविततमखिलाधारमाकाशमाहः
किञ्चानन्दं मनोवागविषयमधिकं धर्मिणो वर्णयन्ति ।
सत्तास्फूर्तिस्सुखं च त्रयमपि जगतां सङ्गिरन्ते तदशां
प्राणाकाशाद्युपास्तीः कतिचिदपि तदालम्बनास्ते वदन्ति ॥ २॥
कर्तुत्वं तस्य धर्मो कलयनि जगतां पञ्चके सृष्टिपूर्वे
धर्मः पुंरुपमाप्त्वा सकलजगदुपादानभावं बिभर्ति ।
स्त्रीरूपं प्राप्यदिव्या भवति च महिषी स्वाश्रयस्यादिकर्तुः
प्रोक्तो धर्मप्रभेदावपि नितमविदां धर्मिवत् ब्रह्मकोटी ॥ ३॥
यौऽसौधर्मी स शम्भुस्स शिव इति परब्रह्म चेति प्रसिद्धो
या चोक्ता धर्मिणोऽस्याविधटितमहिषी साम्बिकोमेति वित्ता ।
यश्चोपादानभूतः पर इह पुरुषश्चैष नारायणोक्त्या
ख्यात; श्रीकूर्मवाक्यैरधिगदितमिदं नारदस्यापि वाक्यैः ॥ ४॥
तस्यैवाद्यस्य पुंसः परिणतिरखलोप्यम्बरादिविकारः
तस्यैवांशो विरिञ्चावधिरिह सकलोप्येष संसारिवर्गः ।
प्राप्यं कृत्वैव तस्य प्रपतनममृतस्याद्यमानन्दमूर्तिः
स्थानं भर्गस्य जुष्टं तदमृततनयः देवदेवैः पुराणैः ॥
ख्याताः कोट्यो नवाष्टादश नपरिमिताः स्थाणुवैकुण्ठवेधः
शक्तीनां यत्कलांशा त्रिभुवनविषयाश्शङ्करस्यैव भोग्याः ।
या विख्याता कृपाधिश्श्रुतिशिरसिपरब्रह्मविद्याप्रदात्री
साहित्यं सा भवानी भजति नियमतश्शङ्करोपासनासु ॥
श्रीमत्कूर्मेण याऽत्याश्रमरतविषया भावनोक्ता तृतीया
दिव्यस्थानप्रदात्री सगुणविषयिणी शङ्करालम्बना सा ।
ये त्वन्ये भावने ते सरसिजनयनेनादिश्क्त्या च युक्ते
प्रापिण्यौ ते तु तस्याः क्रमिकफलयुते भौतिकं साङ्ख्यमाप्ते ॥ ७॥
विद्वांसः शङ्करस्य श्रुतिमतिमहितोपासनावासनाभिः
लब्धस्वान्तप्रतिष्ठास्सुदृढमभिदया तं विलोक्यात्मनैव ।
गोलोकस्योर्ध्वभागादपि परमपदाद्वैष्णवस्योर्ध्वदेशे
भास्वत्कोटिप्रभं यान्त्यपुनरपगमस्थानमानन्दरूपम् ॥ ८॥
अमथ्य भाष्य दुग्दाब्धेः आप्तं रत्नत्रयं ततः ।
शम्भुर्गौरी हरिश्चेति तच्च सम्यक्परीक्षितम् ॥ ९॥
इति श्रीमदप्पय्यदीक्षितविरचिता रत्नत्रयपरीक्षा समाप्ता ।