श्रीरूपचिन्तामणिः
छत्रं शक्तियवाङ्कुशं पविचतुर्जम्बूफलं कुण्डलं
वेदीदण्डगदारथाम्बुजचतुःस्वस्तिं च कोणाष्टकम् ।
शुद्धं पर्वतमूर्ध्वरेखामलोऽङ्गष्ठात्कनिष्ठावधे-
र्बिभ्रद्दक्षिणपादपद्मममलं शच्यात्मजश्रीहरेः ॥ १॥
शङ्खाकाशकमण्डलुं ध्वजलतापुष्पस्रगर्धेन्दुकं
चक्रं निर्ज्यधनुस्त्रिकोणवलयापुष्पं चतुस्कुम्भकम् ।
मीनं गोष्पदकूर्ममासुहृदयाङुष्ठात्कनिष्ठावधे-
र्बिभ्रद्सव्यपदाम्बुजं भगवतो विश्वम्भरस्य स्मर ॥ २॥
यवमङ्गुष्ठमूले च तत्तले चातपत्रकम् ।
अङ्गुष्ठतर्जनीसन्धिभागस्थामूर्ध्वरेखिकाम् ॥ ३॥
सुकुञ्जिकां सूक्ष्मरूपां स्मर रे मे मनः सदा ।
तर्जन्यास्तु तले दण्डं वारिजं मध्यमातले ॥ ४॥
तत्तले पर्वताकारं तत्तले च रथं स्मर ।
रथस्य दक्षिणे पार्श्वे गदां वामे च शक्तिकाम् ॥ ५॥
कनिष्ठायास्तलेऽङ्कुशं तत्तले कुलिशं स्मर ।
वेदिकां तत्तले व्याप्तां तत्तले कुण्डलं ततः ॥ ६॥
एषां चिह्नतले दीप्तं स्वस्तिकानां चतुष्टयम् ।
अष्टकोणसमायुक्तं सन्धौ जम्बूचतुष्टयम् ॥ ७॥
असव्याङ्घ्रौ महालक्ष्म स्मर गौरहरेर्मनः ।
अथ वामपदाङ्गुष्ठमूले शङ्खं तले पविम् ॥ ८॥
मध्यमातलयाकाशं तद्द्वयाधो धनुः स्मर ।
गुणेन रहितं चापं वलयां मणिमूलके ॥ ९॥
कनिष्ठायास्तले चैकं सुशोभनकमण्डलुम् ।
तस्य तले गोष्पदाख्यं सत्पताकां ध्वजां पुनः ॥ १०॥
चिन्तय तत्तले पुष्पं वल्लीं तस्य तले स्मर ।
गोष्पदस्य तलेऽप्येकं त्रिकोणाकृतिमण्डलम् ॥ ११॥
चिन्तय तत्तले कुम्भान् चतुरः समनोरमान् ।
तेषां मध्ये चार्धचन्द्रं तले कूर्मं सुशोभनम् ॥ १२॥
शफरीं तत्तले रम्यां तस्यापि दक्षिणे पुनः ।
कूर्मस्य तुल्यभागे तु निम्ने घटतलेऽपि च ॥ १३॥
मनोरमां पुष्पमालां स्मर वामाङ्घ्रिपङ्कजे ।
इति द्वात्रिंशच्चिह्नानि गौराङ्गस्य पदाब्जयोः ॥ १४॥
इति श्रीविश्वनाथचक्रवर्तिठक्कुरविरचितस्तवामृतलहर्यां
श्रीरूपचिन्तामणिः सम्पूर्णा ।