श्रीरामस्तम्भनाचार्याष्टकम्
श्रीरामानन्दधर्मस्य त्रातारं राममन्त्रदम् ।
रामस्तम्भनमीडेऽहं द्वाराचार्यं जगद्गुरुम् ॥ १॥
वचःस्मम्भनकर्त्तारं वादाहवे च वादिनाम् ।
रामस्तम्भनमीडेऽहं द्वाराचार्यं जगद्गुरुम् ॥ २॥
योगिनां चाथ सिद्धानां जेतारं योगसिद्धिदम् ।
रामस्तम्भनमीडेऽहं द्वाराचार्यं जगद्गुरुम् ॥ ३॥
पञ्चभिश्चाथ संस्कारैः श्रीवैष्णवत्वकारकम् ।
रामस्तम्भनमीडेऽहं द्वाराचार्यं जगद्गुरुम् ॥ ४॥
यज्ञदानतपःकर्मशिक्षादक्षं तपस्विनम् ।
रामस्तम्भनमीडेऽहं द्वाराचार्यं जगद्गुरुम् ॥ ५॥
रामभक्तिप्रवृत्तिभ्यां जनानां मोक्षदायकम् ।
रामस्तम्भनमीडेऽहं द्वाराचार्यं जगद्गुरुम् ॥ ६॥
रहस्यत्रयवेत्तार सत्यादिगुणसागरम् ।
रामस्तम्भनमीडेऽहं द्वाराचार्यं जगद्गुरुम् ॥ ७॥
आनन्दभाष्यतत्त्वज्ञ वेदवेदान्तवेदिनम् ।
रामस्तम्भनमीडेऽहं द्वाराचार्यं जगद्गुरुम् ॥ ८॥
इति श्रीरामस्तम्भनाचार्याष्टकं सम्पूर्णम् ।
Encoded and proofread by Mrityunjay Pandey