श्रीरामरामायणीदेवाचार्याष्टकम्
रामायणप्रवक्तारं रामब्रह्मोपदेशकम् ।
रामरामायणीत्याख्यं द्वाराचार्यं नमाम्यहम् ॥ १॥
शिष्यं श्रीक्षेमदासस्य भक्त्या मुक्तिविधायकम् ।
रामरामायणीत्याख्यं द्वाराचार्यं नमाम्यहम् ॥ २॥
विशिष्टाद्वैततत्त्वज्ञं वेदवेदान्तपारगम् ।
रामरामायणीत्याख्यं द्वाराचार्यं नमाम्यहम् ॥ ३॥
भक्तानन्दविधातारमानन्दभाष्यवेदिनम् ।
रामरामायणीत्याख्यं द्वाराचार्यं नमाम्यहम् ॥ ४॥
राममन्त्रौषधिं दत्त्वा मृत्युरोगनिवारकम् ।
रामरामायणीत्याख्यं द्वाराचार्यं नमाम्यहम् ॥ ५॥
श्रीरामानन्दधर्माब्धेर्वर्धकं पूर्णिमाविधुम् ।
रामरामायणीत्याख्यं द्वाराचार्यं नमाम्यहम् ॥ ६॥
मालामुद्रादिसंस्कारै ः संस्कर्त्तारं जगद्गुरुम् ।
रामरामायणीत्याख्यं द्वाराचार्यं नमाम्यहम् ॥ ७॥
शिष्याणां हितकर्त्तारं मन्त्रत्रयार्थबोधकम् ।
रामरामायणीत्याख्यं द्वाराचार्यं नमाम्यहम् ॥ ८॥
इति श्रीरामरामायणीदेवाचार्याष्टकं सम्पूर्णम् ।
Encoded and proofread by Mrityunjay Pandey