श्रीरामकबीराचार्याष्टकम्
रामानन्दयतीन्द्रस्य शिष्यं धर्मप्रवर्धकम् ।
वन्दे रामकवीरार्यं द्वाराचार्यं जगद्गुरुम् ॥ १॥
आनन्दभाष्यसिद्धान्तवेदिनं जितवादिनम् ।
वन्दे रामकवीरार्यं द्वाराचार्यं जगद्गुरुम् ॥ २॥
महात्मानं महासिद्धं सिद्धयोगीन्द्रसेवितम् ।
वन्दे रामकवीरार्यं द्वाराचार्यं जगद्गुरुम् ॥ ३॥
दयालुं राममन्त्रस्योपदेष्टारं तपोनिधिम् ।
वन्दे रामकवीरार्यं द्वाराचार्यं जगद्गुरुम् ॥ ४॥
लोकानां हितकर्त्तारं रामकीर्त्तनशिक्षया ।
वन्दे रामकवीरार्यं द्वाराचार्यं जगद्गुरुम् ॥ ५॥
सत्यादिधर्मवक्तारं दम्भिनां दम्भखण्डकम् ।
वन्दे रामकवीरार्यं द्वाराचार्यं जगदुरुम् ॥ ६॥
संस्काराणां च मालोर्ध्वपुण्ड्रादीनां च रक्षकम् ।
वन्दे रामकवीरार्यं द्वाराचार्यं जगद्गुरुम् ॥ ७॥
राममन्त्रादिकानां च रहस्यानां प्रबोधिनम् ।
वन्दे रामकवीरार्यं द्राराचार्यं जगद्गुरुम् ॥ ८॥
इति श्रीरामकबीराचार्याष्टकं सम्पूर्णम् ।
Encoded and proofread by Mrityunjay Pandey