श्रीरामकृष्णप्रशस्तिः
क्षीणाः स्म दीनाः सकरुणा जल्पन्ति मूढा जनाः
नास्तिक्यन्त्विदन्तु अहह देहात्मवादातुराः ।
प्राप्ताः स्म वीरा गतभया अभयं प्रतिष्ठां यदा
आस्तिक्यन्त्विदन्तु चिनुमो रामकृष्णदासा वयम् ॥ १॥
पीत्वा पीत्वा परमपीयूषं वीतसंसाररागाः
हित्वा हित्वा सकलकलहप्रापिणीं स्वार्थसिद्धिम् ।
ध्यात्वा ध्यात्वा श्रीगुरुचरणं सर्वकल्याणरूपं
नत्वा नत्वा सकलभुवनं पातुमामन्त्रयामः ॥ २॥
प्राप्तं यद्वै त्वनादिनिधिनं वेदोदधिं मथित्वा
दत्तं यस्य प्रकरणे हरिहर ब्रह्मादिदेवैर्बलम् ।
पूर्णं यत्तु प्राणसारैर्भौमनारायणानां
रामकृष्णस्तनुं धत्ते तत्पूर्णपात्रमिदं भोः ॥ ३॥
इति स्वामिविवेकानन्दविरचिता ``श्रीरामकृष्णप्रशस्तिः'' समाप्ता ।
Proofread by Aruna Narayanan