श्रीरामकृष्णमहिमोद्गीतिः
प्राध्यापक - पाँचुगोपाल बन्द्योपाध्यायेति - प्रचलन्नामधेय-
श्रीजगन्नाथदेव शर्मणा विरचिता ।
वन्दे पुराणपुरुषं करुणावतारं
प्रेमानुराग-भरिताक्षि-सरोज-युग्मम् ।
भक्तालिलीढ़-युगभाव-कदम्ब-सारं
श्रीरामकृष्णमखिलाघ-कुरङ्ग-भङ्गम् ॥ १॥
अभिराम-नराकार ! जय जय गदाधर ! ।
परिहृतधराभार ! जय जय नमोऽस्तुते ॥ २॥
अभिनव-समाचार ! लीलामय-तनु-धर ! ।
निखिल-सद्गुणाधार । जय जय नमोऽस्तुते ॥ ३॥
अतिक्रान्त-कुलाचार ! मधुर-मोहन-स्वर ! ।
``धनी''-भिक्षा-कणाहार ! जय जय नमोऽस्तुते ॥ ४॥
अनुपम रसागार ! विमल प्रतिभा-धर ! ।
पितृ-प्रसू-मनश्चौर ! जय जय नमोऽस्तुते ॥ ५॥
त्रेतायां यश्च रामोहि श्रीकृष्णो द्वापरे स्मृतः ।
तस्मै त्वभेद-रूपाय रामकृष्णाय ते नमः ॥ ६॥
जगन्मातृ-गत-प्राण-दक्षिणेश्वर-वासिने ।
सर्वतन्त्र-सुसिद्धाय-रामकृष्णाय ते नमः ॥ ७॥
नानामत-सुसिद्धाय समन्वय-विधायिने ।
अनुलोम-विलोमज्ञ-महाविज्ञानिने नमः ॥ ८॥
कामिनी-काञ्चन-त्यागि-न्यक्कृत-सिद्धि-सम्पदे ।
विश्वमातृत्व-सम्बुद्ध-जायाङ्घ्रि पूजकाय च ॥ ९॥
विशुद्ध मातृभावाय सिद्धि कपाट-मोचिने ।
नमस्ते देवदेवाय करुणाघन-मूर्तये ॥ १०॥
``न तु जीवे दया भावः सेवैव शिव-बोधतः ।''
इति श्रेष्ठ-युगादर्शोद्घोषकाय नमोऽस्तुते ॥ ११॥
प्रेमैक-सिन्धवे तुभ्यं ज्ञान-वैराग्य-मूर्तये ।
धर्म-ग्लानि-विनाशाय चैतन्य-दायिने नमः ॥ १२॥
आचण्डाल-वृष्ठ-प्रेम्नेः पाप-ताप-निवारिणे ।
पातकी-पाप-सङ्कृष्टेऽर्गलव्याधि-भुजे नमः ॥ १३॥
द्विजान्त्यज-सम-ज्ञान-पतित-पावनाय वै ।
सर्वपाप-प्रहाणाय जगद्गुरो ! नमोऽस्तुते ॥ १४॥
असाध्य-व्याधि-सङ्क्रान्तेः काशीपुर-निवासिने ।
प्रेष्ठ-शिष्य-नरेन्द्राय सर्वस्व-दायिने नमः ॥ १५॥
निर्विकल्प प्रलीनाय चैतन्योद्बोधकाय च ।
प्रशान्ति-करुणा-प्रेम-मण्डितास्याय ते नमः ॥ १६॥
सर्वधर्म स्वरूपाय देशिकेन्द्राय सूरये ।
महाभाव प्रतिष्ठाय ब्रह्मिष्ठायापि ते नमः ॥ १७॥
``न जातःप्रत्ययोऽद्यापि खलु ते यो हि रामो नु ।
श्रीकृष्णो यश्च भूतले सोऽत्र रामकृष्णोऽधुना'' ॥ १८॥
लीला-संवृति बेलायां स्फुटमिति नरेन्द्राय ।
स्वरूपोन्मोचिने तुभ्यं त्रिकालदर्शिने नमः ॥ १९॥
ऊरीकृत्य नैव यो गुरु-जनक-मतिं कर्तृभावं निकृष्टं
प्राभूत् विश्वे वरिष्ठोऽतुल-मनुजवरः सङ्घ-देवो गरिष्ठः ।
ईशानस्तारको योऽखिल कलुषहरस्त्वाश्रयो भक्तिदाता
तस्मै हे रामकृष्ण प्रभु गुणधरते झङ्कृताः साधुवादाः ॥ २०॥
नमस्तुभ्यं विराड् रूप ! हिरण्यगर्भ हे ! नमः ।
ईश्वर हे ! नमस्तुभ्यं तुरीय ब्रह्मते ! नमः ॥ २१॥
जगज्जालबद्धः कलिस्तब्धबोधो हताशा विमूढश्च नूनं मनुष्यः ।
मृगेन्द्रो बहिः पिञ्जरात् याति यादृक्
तथा रामकृष्ण प्रसादाद्धि तस्मात् ॥ २२॥
इति ``श्रीश्रीरामकृष्णमहिमोद्गीतिः'' समाप्ता ॥
Proofread by Aruna Narayanan