श्रीरामानुजचतुःश्लोकी
श्रीरस्तु ।
श्रीमते हयग्रीवाय नमः ।
श्रीमते रामानुजाय नमः ॥
अनिशं भजतामनन्यभाजां चरणाम्भोरुहमादरेण पुंसाम् ।
वितरन्निभृतं विभूतिमिष्टां जय रामानुज रङ्गधाम्नि नित्यम् ॥ १॥
भुवि नो विमतांस्त्वदीयसूक्तिः कुलिशीभूयः कुदृष्टिभिस्समेतान् ।
शकलीकुरुते विपश्चिदीड्या जय रामानुज शेषशैलशृङ्गे ॥ २॥
श्रुतिषु स्मृतिषु प्रमाणतत्त्वं कृपयाऽऽलोक्य विशुद्धया हि बुद्ध्या ।
अकृथाः स्वत एव भाष्यरत्नं जय रामानुज हस्तिधाम्नि नित्यम् ॥ ३॥
जय मायिमतान्धकारभानो जय बाह्यप्रमुखाटवीकृशानो ।
जय संश्रितसिन्धुशीतभानो जय रामानुज यादवाद्रिशृङ्गे ॥ ४॥
रामानुजचतुःश्लोकीं यः पठेन्नियतः सदा ।
प्राप्नुयात् परमां भक्तिं यतिराजपदाब्जयोः ॥
इति श्रीरामानुजचतुःश्लोकी समाप्ता ।
Proofread by Aruna Narayanan narayanan.aruna at gmail.com