श्रीरामानन्दपञ्चकम्
सन्मुक्तेः पथदर्शकं कुमतिहृत्प्रस्थानभाष्यस्त्रिभिः
काषायाम्बरधारिणं वरतमैर्दण्डैस्त्रिभिर्मण्डितम् ।
योगीन्द्रैर्वसुधाधिपैश्च विबुधैः संसेवितं मुक्तिदं
रामानन्दजगद्गुरुं हितकरं वन्दे यतीनां पतिम् ॥ १॥
श्रीमद्भक्तिमहापयोनिधिसुधासिद्धौषधिस्वादकं
श्रीसीतारघुनाथभक्तिवरदं तापत्रयोन्मूलकम् ।
वेदानामथ वञ्चनाभयहरं वेदानुसन्धायकं
रामानन्दजगद्गुरुं हितकरं वन्दे यतीनां पतिम् ॥ २॥
श्रौतस्मार्तवचःसमन्वितविशिष्टाद्वैतसिद्धान्तदं
पन्थानं परिपन्थिनां श्रुतिधिया रुद्ध्वा महानन्ददम् ।
संसारव्यसनापसारणमहायागे सदा दीक्षितं
रामानन्दजगद्गुरुं हितकरं वन्दे यतीनां पतिम् ॥ ३॥
वादे वैदिकवादिनं विजयिनं वादीभपञ्चाननं
सिद्धेन्द्रैः परिपूजितं सुखकरं सिद्धिप्रदं सात्त्विकम् ।
रामोपासनदायकं मुनिवरं रामावतारं विभुं
रामानन्दजगद्गुरुं हितकरं वन्दे यतीनां पतिम् ॥ ४॥
श्रीमद्वैष्णवधर्मवारिजरविं वैराग्यपाथोनिधिं
श्रीरामायणतत्त्वविच्छ्रुतिनुतश्रीराममन्त्रप्रदम् ।
धर्माचार्यशिरोमणिं गुणनिधिं भक्तप्रियं धार्मिकं
रामानन्दजगद्गुरुं हितकरं वन्दे यतीनां पतिम् ॥ ५॥
वैष्णवभाष्यकारश्रीवैष्णवाचार्यनिर्मितम् ।
पञ्चकं भवतादेतत् सर्वकल्याणकारकम् ॥
इति स्वामी श्रीवैष्णवाचार्यप्रणीतं श्रीरामानन्दपञ्चकं सम्पूर्णम् ।
Encoded and proofread by Akash Pandeya