श्रीराघवेन्द्रमन्त्रविधिवर्णनम्
अथ मन्त्रविधिं वक्ष्ये राघवेन्द्रार्यसद्गुरोः ।
जपेन यस्य मन्त्रस्य गुरुरिष्टं प्रयच्छसि ॥ १॥
हरौ रुष्टे गुरुस्त्राता गुरौ रुष्टे न कश्चन ।
गुरौ तुष्टे हरिस्तुष्टो गुरुद्वारा विमुक्तिदः ॥ २॥
उत्तमादुत्तमा सिद्धिः धर्ममोक्षादिषु स्फुटम् ।
तत्तस्मादुत्तमाचार्ये लब्धे नाऽतोऽवरं व्रजेत् ॥ ३॥
एकस्य शिष्यतां प्राप्य न तदाज्ञां विना समम् ।
अवरं वा व्रजेदुच्चगुणश्चेन्नैव दुष्यति ॥ ४॥
नराणां स्थूलदृष्टीनां शास्त्रज्ञानाधिकाः स्वतः ।
तदनुग्रहाच्च या विद्या स्वरूपोद्धारिणी भवेत् ॥ ५॥
गुरुप्रसादो बलवान् प्रसादात् श्रीहरेरपि ।
अपासितोऽपि भगवान् प्रसन्नो येन मुक्तिदः ॥ ६॥
यस्तारतम्यवेत्ता स्याद्गुरूणां देवतास्वपि ।
भक्तिमान् गुरदेवेषु तद्भक्तेषु च सिध्यति ॥ ७॥
अवज्ञाता गुरूणां च देवतानां न सिध्यति ।
प्रयाति च तमो घोरमित्यादिबहुवाक्यतः ॥ ८॥
गुरोरनुग्रहं मुख्यं सम्प्राप्य सुखवान् भवेत् ।
अतो भूलोकमध्येऽस्मिन् प्रत्यक्षफलदायिनः ॥ ९॥
राघवेन्द्रगुरोः स्तोत्रं मन्त्रं कवचमुच्यते ।
अप्पण्णार्येण कथितं लोकानुग्रहकाङ्क्षया ॥ १०॥
लक्ष्मीः सदीर्घाग्निघर्म साधरोष्ठाम्बरामृतम् ।
दत्तो वायुश्च हृदयं मनुरष्टाक्षरो गुरोः ॥ ११॥
षडङ्गन्यासः -
विना तु हृदयं षड्भिः वर्णैरङ्गमुदाहृतम् ।
द्विरावृत्तैः मन्त्रपदैः षडङ्गान्यथवा विदुः ॥ १२॥
तैरेव तु द्विरावृत्तैः क्रमवत्क्रमतोऽथवा ।
तप्तकाञ्चनसङ्काशमक्षमालां कमण्डलुम् ॥ १३॥
दोर्ध्यां दधानं काषायवसनं राममानसम् ।
योगीन्द्रतीर्थवन्द्याङ्घ्रिं तुलसीदामवक्षसम् ॥ १४॥
ज्ञानभक्तितपःपूर्णं ध्यायेत् सर्वार्थसिद्धये ।
मन्त्रेणैव प्रकर्तव्यं दिशां बन्धश्च मोचनम् ॥ १५॥
लक्षाण्यष्टौ द्वादश वा पुरश्चर्यापरो जपेत् ।
अन्यो वाऽष्टोत्तरशतं सहस्रं प्रत्यहं जपेत् ॥ १६॥
कृताकृतं च होमादि परस्त्रीविमुखो भवेत् ।
ब्राह्मणाराधनं मुख्यं यथाशक्ति ऋणं विना ॥ १७॥
अङ्गन्यासे द्वितीये तु ध्यानं वक्ष्यामि सद्गुरोः ।
श्रीराघवेन्द्रोपरिपादकञ्जनिषेवणाल्लब्धसमस्तसम्पत् ॥ १८॥
देवस्वभावो दिविजद्रुमोऽयमिष्टप्रदो मे सततं स भूयात् ।
न्यासे तृतीये ध्यानं तु पूजापटल उच्यते ॥ १९॥
अग्निः सुदीर्घबिन्दुश्चेन्मनुरेकाक्षरोऽपरः ।
षड्दीर्घस्वरयुक्तेन तेनैव स्यात् षडङ्गकम् ।
निचृद्गायत्रीकानुष्टुप् छन्दसी एतदाद्ययोः ॥ २०॥
श्रीराघवेन्द्रः सकलप्रदाता स्वपादकञ्जद्वयभक्तिमद्ध्यः ।
अघाद्रिसम्भेदनदृष्टिवज्रक्षमा सुरेन्द्रोऽवतु मां सदाऽयम् ॥ २१॥
द्वे लक्षे वाऽष्टलक्षाणि पुरश्चरा जपो मतः ।
इमौ मन्त्रौ मन्त्रराजौ मुख्यमापन्निवारकौ ॥ २२॥
जयप्रदौ च वाक्सिद्धिप्रदौ पुत्रादिकप्रदौ ।
कलौ प्रत्यक्षफलदौ शीघ्रमेव धनप्रदौ ॥ २३॥
ऋणापहारको राजचोरपीडादिशामकौ ।
जनानुरागी लोकैश्च पूज्यो भवति जापकः ॥ २४॥
ज्ञानवान् वाक्पटुर्दैवशाली दीर्घायुरुत्तमः ।
क्षेमवान् कविताशास्त्रगोष्ठीषु च विचक्षणः ॥ २५॥
बलवान् रूपसम्पन्नो निर्मलात्मा सुभक्तिमान् ।
कलत्रपुत्रबन्धूनामानुकूल्यं च विन्दति ॥ २६॥
शत्रुवश्यं भवेत्तस्य सर्वसौभाग्यवर्धनम् ।
वेदान्तपारगः कीर्तिसम्पन्नः सुदयान्वितः ॥ २७॥
शान्तक्रोधो निर्मलात्मा सर्वदेवप्रियो भवेत् ।
वैराग्यवान् महात्यागी भोगी धर्मविचक्षणः ।
कन्यां लक्षणसम्पन्नां प्राप्नोति श्रियमुत्तमाम् ॥ २८॥
किमत्र बहुनोक्तेन गुरुराजकृपाबलात् ।
स भवेत् सिद्धसङ्कल्पः सर्वरोगविवर्जितः ॥ २९॥
भगवत् ज्ञानभक्तिभ्यां भुक्तिं मुक्तिं च विन्दति ।
स्नात्वा नित्याह्निकं कृत्वा वृन्दावन गतं गुरुम् ॥ ३० ॥
अथवा पादुकायां च यन्त्रे वाऽवाहयन् जले ।
अप्पणार्यकृतस्तुत्या स्नापयित्वा शुचिः स्थिरः ॥ ३१॥
जपेत् पश्चात् अप्पणार्यनाममन्त्रं जपेद्यथा ।
श्री अप्पणार्याय नम इत्थमष्टाक्षरो मनुः ॥ ३२॥
योगीन्द्रतीर्थवन्द्यानि तुलसीदामवक्षसम् ।
ज्ञानभक्तिः तपः पूर्णं ध्यायेत् सर्वार्थसिद्धये ॥ ३३॥
श्रीराघवेन्द्रगुर्वत्रिसंसक्तधिषणाग्रणीः ।
अप्पण्णार्यगुरुर्भूयादस्मदिष्टार्थसिद्धये ॥ ३४॥
अङ्गन्यासादिनास्यास्ति शतं वा दश वा जपेत् ।
मालादिगासनादीनि प्रसिद्धान्येव लोकतः ॥ ३५॥
अनेन गुरुराजस्य मन्त्रः शीघ्रेण सिध्यति ।
रां बीजं विलिखेत् पूर्वं त्रिकोणं त्वेकरेखया ॥ ३६॥
वर्तुलं वेष्टयित्वाऽथ पद्ममष्टदलं लिखेत् ।
तद्दलेषु क्रमान्मन्त्रवर्णानि विलिखेद्बुधः ॥ ३७॥
रेखाभ्यां भूपुरं द्वाभ्यामष्टदिक्षु श्रियं लिखेत् ।
त्रिभिरावरणैर्युक्तं पूजायन्त्रमिदं गुरोः ॥ ३८॥
साध्यार्णान् विलिखेत् धार्ये त्रिकोणे बीजसम्पुटे ।
एवं मन्त्रेण यन्त्रेण गुरुराजप्रसादजैः ॥ ३९॥
मनोरथैः समृद्धः स्यादनेके सन्ति साक्षिणः ।
स्वानुभूतं चाह साक्षादवधूतो गुरोः सुतः ॥ ४० ॥
सततविमलगात्रं सद्गुणानाममन्त्रं
दुरिततृणलवित्रं दुर्मतध्वान्तमित्रम् ।
भज कभरबहित्रं मामकप्राणमित्रं
गुरुमतुलचरित्रं नौमि मां पातु पुत्रम् ॥ ४१॥
इति श्रीमत्कृष्णावधूतपण्डितकृतौ श्रीराघवेन्द्रतन्त्रे
श्रीराघवेन्द्रमन्त्रविधिवर्णनं नाम द्वितीयपटलः सम्पूर्णः ।
Proofread by Gopalakrishnan, PSA Easwaran