श्रीराघवेन्द्रहृदयम्
नारायणं महालक्ष्मीं भार्गवं रघुनायकम् ।
कृष्णं व्यासं हनूमन्तं भीमं मध्वं गुरूनपि ॥ १॥
व्यासं नत्वाऽवधूतोऽहं वक्ष्यामि हृदयं गुरोः ।
नानाछन्दः सुसर्वार्थदायकं पापनाशकम् ॥ २॥
ध्यायामि श्रीराघवेन्द्रार्यरूपं
भूलोकेऽस्मिन् सर्वसौभाग्यहेतुम् ।
भक्तत्राणायैव बद्धादरं मे
चित्ते नित्यं संवसत्विष्टदैवम् ॥ ३॥
पुरा प्रह्लादनामाऽभूत् हिरण्यकशिपोः सुतः ।
यदर्थं श्रीमहावष्णुर्नृकण्ठीरवतां गतः ॥ ४॥
संहतः प्रहतश्चेति तस्यास्तां परिचारिणौ ।
त्रेतायां रामसेवार्थं विभीषणतयाऽजनि ॥ ५॥
तत्रापि चारौ तौ जातौ सन्धिकश्च प्रसन्धिकः ।
द्वापरेऽपि समं ताभ्यां समाविष्टश्च वायुना ॥ ६॥
भूभारक्षपणे विष्णोरङ्गतामाप्तुमेव सः ।
प्रतीपपुत्रतामाप्य बाह्लीकेष्वभवत्पतिः ॥ ७॥
कलौ गोपालकृष्णार्चा पूजायै व्यासमस्करी ।
भूत्वा निर्जित्य दुर्वादान् मध्वशास्त्रं प्रकाशयत् ॥ ८॥
ब्रह्ममानसपूजायामाविर्भूतां हृदम्बुजात् ।
श्रीरामार्यं च सीतार्च्यां प्रपूजयिषुरेषकः ॥ ९॥
श्रीराघवेन्द्रतीर्थाख्योऽवतीर्य यतिरूपतः ।
विवृत्या मध्वशास्त्रस्य लोकोपकृतिमातनोत् ॥ १०॥
अप्पण्णाचार्य कृष्णाख्यौ तत्रापि द्विजरूपतः ।
संहताहतौ जातौ शिष्यौ तस्य प्रियौ सदा ॥ ११॥
पुनश्च सत्यसन्धाख्यो मठान्तरनिवासिनीम् ।
अनर्चितां च सीतायाः प्रतिमामार्चयद्यतिः ॥ १२॥
विष्वक्सेनाहीशपुत्रावताराः षडिमे मताः ।
तस्य श्रीराघवेन्द्रगुरोः काम्यार्थदायिनः ॥ १३॥
अप्पण्णाचार्यरचितं स्तोत्रं सर्वेष्टसाधकम् ।
एतद्विना गुरोः पूजा स्तोत्रञ्चाष्टाक्षरी जपः ॥ १४॥
सेवा च व्यर्थतामेति न प्रसादो गुरोर्भवेत् ।
आदौ सकृद्वा तत्पाठादन्यत्सिद्ध्यति शीघ्रतः ॥ १५॥
सर्वेष्वपि च शिष्येषु अप्पण्णाचार्य एव सः ।
गुरोरतिप्रियो यस्मात् स्तुतिस्तेन समादृताः ॥ १६॥
अप्पणाचार्यसम्प्रोक्तं मूलं माला च वर्म च ।
यथायोगं यथाकालं तत्तदुक्तार्थसिद्धिदम् ॥ १७॥
श्रीराघवेन्द्रयतिनं ईप्सितार्थप्रदायिनम् ।
उपासते यथा भक्त्या तथा फलमवाप्नुयात् ॥ १८॥
सेवया परमहंसानामैहिकाऽमुष्टिकं भवेत् ।
ज्ञानं भक्तिं च वैराग्यं भुक्तिं मुक्तिं च विन्दति ॥ १९॥
इत्यादि वाक्यात् परमहंसाधीशमिमं गुरुम् ।
सेवेत सर्वथा मर्त्यः स्वरूपोद्धारकारणम् ॥ २०॥
स्तुवीत बहुभिः स्तोत्रैः प्रार्थयीत यथेप्सितम् ।
श्रीराघवेन्द्रं श्रितपारिजातं सीतारघूत्तंसपदाब्जचित्तम् ।
काषायवस्त्रं कमनीयवेषं काम्यार्थदातारमतीतदोषम् ॥ २१॥
जयतु जयतु राजा राजराजादिपूज्यो
जयतु जयतु रम्ये रञ्जितानेकलोकः ।
जयतु जयतु भोगी भक्तभाग्यप्रदाता
जयतु जयतु भूमा भूरि भूरि प्रदाता ॥ २२॥
जयतु जयतु बन्धुर्बन्धनच्छेदकारी
जयतु जयतु मित्रं मीलितानेकवैरी ।
जयतु जयतु माता मान्यमान्यो महात्मा
जयतु जयतु तातस्तापहर्ता नितान्तम् ॥ २३॥
गुरो तव पदाम्बुजं भवपयोधिनौकायितं
महाजनपरम्पराभजनगोचरं भूतिदम् ।
भजामि भजतां नृणां बहुगदौघविध्वंसकं
सुखप्रदमहर्निशं सुखसुखेन संसिद्धिदम् ॥ २४॥
मनो वसतु पादयोर्भवतु मे वचस्ते स्तुतौ
त्वदीक्षणविधौ दृशा भवतु तेऽर्चनायां करौ ।
श्रुती तव गुणश्रुतौ भवतु मस्तकं ते नतौ
प्रदक्षिणविधौ पदे गुरुवराश्रये ते पदे ॥ २५॥
वित्ताशया जगति वित्तादि सम्पदतिमत्तानिमानुपचरन्
न्यात्तादिरस्म्यहमनुत्तानलुण्ठदपचित्ताविवेकमतिमान् ।
मत्ताङ्गना कठिनवृत्तानुबन्धिकुचदत्ताधरश्च तमिमं
श्रीराघवेन्द्र दययाऽऽरादुपैहि मम धीराशु यच्छ सुमतिम् ॥ २६॥
तव सेवारतान् कांश्चित् भक्तान् प्रेषया मां प्रति ।
तेषां मनोरथं तात मया पुत्रेण पूरय ॥ २७॥
अथवा करुणासिन्धो मयि सन्निहितः सदा ।
पुत्रस्य मम वाक्येन सर्वसर्वेष्टदो भव ॥ २८॥
येनकेनाप्युपायेन दूने दुर्यशसा भुवि ।
माहात्म्यं मयि विन्यस्य कुरु मां लोकपूजितम् ॥ २९॥
युक्तायुक्तमजानानो याचे त्वां बालवद्गुरो ।
दाता त्राता दयालुस्त्वं यथेच्छसि तथा कुरु ॥ ३०॥
सर्वज्ञाय स्वतन्त्राय भक्तक्लेशविनाशिने ।
उदारचेतसे किं ते वदे मद्भारवाहिने ॥ ३१॥
आपादमौलिपर्यन्तं गुरूणामाकृतिं स्मरेत् ।
तेन विघ्नाः प्रणश्यन्ति सिद्ध्यन्ति च मनोरथाः ॥ ३२॥
इति श्री गुरुराजस्य हृदयं तदनुज्ञया ।
कृष्णावधूत कथितं गुरुवाक्यानुसारतः ।
सम्पाद्य सिद्धसङ्कल्पे भक्तिं मुक्तिं च विन्दति ॥ ३३॥
पठनाच्छ्रवणाद्वापि गुरुसान्निध्यकारणम् ।
किमत्रबहुना सर्वं गुरुराजप्रसादतः ॥ ३४॥
मोदं मे दिशतु गुरुः स राघवेन्द्रो
दीनानां शरणमुदारचित्तवृत्तिः ।
भक्तानां हरिगुरुरूपदर्शकस्त्वं
सुप्रेम्णा मयि मम तात सन्निधेहि ॥ ३५॥
इति श्रीमत्कृष्णावधूतपण्डितकृतौ श्रीराघवेन्द्रतन्त्रे
प्रत्यक्षसिद्धिदे श्रीराघवेन्द्रहृदयं नाम तृतीयः पटलः ।
Proofread by Gopalakrishnan, PSA Easwaran