श्रीराघवेन्द्रगुरुराजस्तवराजः
अथ कृष्णावधूतोऽहं गुरुराजप्रियः सुतः ।
वक्ष्ये मयि पितुस्तस्य कृपां सर्वातिशायिनीम् ॥ १॥
यद्यप्येतन्न प्रकाश्यं रहस्यं विस्मयप्रदम् ।
तथापि वक्ष्ये ग्रन्धेऽस्मिन् प्रत्ययार्थं तदाज्ञया ॥ २॥
कदाचिद्बन्धु-दारिद्र्य-ऋण-राजादि पीडितः ।
भृशं शोचन् गुरुं ध्यायन् न स्वाप्स्वं कलुषाशयः ॥ ३॥
ततः सूर्योदये काले स्वप्ने कोऽपि यतीश्वरः ।
आकटीर्जानुपर्यन्तं ऋद्धकाषायवस्त्रवान् ॥ ४॥
तुलसी मणि मालाभ्यां शोभितेन विवाससा ।
विशालवक्षसा तैलस्निग्धश्यामलवर्चसा ॥ ५॥
अप्रावृतेन शिरसा पादुकाभ्यां च राजतः ।
शिष्येणानुगतः पश्चात् जलपात्रधरेण च ॥ ६॥
वेगादागत्य मां हस्ते गृहीत्वान्तरुपागतः ।
शिष्यस्तु द्वार एवासीदुपाविशदसौ गुरुः ॥ ७॥
अथ मां प्राणिनं सन्तं वत्सेत्यामन्त्र्य सोऽब्रवीत् ।
प्रदर्शयंस्ताम्रपत्रं लिखितं नागराक्षरैः ॥ ८॥
आत्मेत्येव परं देवमुपास्व हरिमव्ययम् ।
प्राणस्येदं वशे सर्वं प्राणः परवशे स्थितः ॥ ९॥
विष्वक्सेनः वायुपुत्रः प्रह्लादः प्रथमो मतः ।
विभीषणोऽथ बाह्लीको व्यासोऽहं सत्यसन्धकः ॥ १० ॥
संहतप्रहतौ सन्धिप्रसन्धी सोमिकोर्मिकौ ।
अप्पणाचार्यकृष्णौ च सेवकौ मे युगक्रमात् ॥ ११॥
मय्यधिष्ठाय ते भारं समन्मन्त्राद्युपासनम् ।
ग्रन्थं कमपि कर्तुं त्वं प्रारभस्व भयं न ते ॥ १२॥
योग्यतामनुसृत्याहमयोग्येच्छां निवारयन् ।
विपत्तीः परिहृत्या ते सुखं दास्यामि पुत्रक ॥ १३॥
ओमित्युक्त्वा यतिस्तच्च ताम्रपत्रं तथाक्षतान् ।
दत्वा मह्यमदृश्योऽभूत् प्रबुद्धोऽहं ततः क्षणात् ॥ १४॥
अपश्यं शिरसः स्थाने साक्षतां ताम्रपत्रिकाम् ।
शान्तः शोकस्तदा मेऽभूदासारैः पादपो यथा ॥ १५॥
चित्तं प्रसन्नमभवद्यथाम्भः कुम्भजोदयात् ।
ततः श्रीराघवेन्द्रार्यगुरुं मोदादपूजयम् ॥ १६॥
आरिरम्भयिषुर्ग्रन्थं राघवेन्द्रार्यतन्त्रकम् ।
अस्तौषं स्तवराजेन भक्त्युन्मादभ्रमन्मनाः ॥ १७॥
श्रीराघवेन्द्रार्य पिता त्वमेव त्वमेव मे सद्गतिहेतुभूतः ।
इमं च शोकं मम नाशयाशु क्षमस्व मे सर्वमहापराधम् ॥ १८॥
कल्यावेशेन कलुषं विषयासक्तचेतसम् ।
स्नानसन्ध्यादिभिर्हीनं भक्तिहीनं हरौ गुरौ ॥ १९॥
साधूनां सङ्गरहितं दुष्टानां सङ्गते स्थितम् ।
दुर्मार्गे सर्वदा सन्तं राघवेन्द्रार्य रक्ष माम् ॥ २०॥
रक्षणीयमरक्षन्तं रक्षणानर्हरक्षकम् ।
दाक्षिण्यादर्थलोभाद्वा दुर्व्यापारं सुवञ्चकम् ॥ २१॥
यन्त्रबद्धपशुप्रायं भ्रममाणं कुयोनिषु ।
अनालम्बनमत्यार्तं राघवेन्द्रार्य रक्ष माम् ॥ २२॥
जन्ममृत्युजराव्याधिपीडितश्च स्वकर्मभुक् ।
दारिद्र्यमतितीर्षश्च संसारव्यसनातुरः ॥ २३॥
दातुं भोक्तुं महालुब्धी वैभवेऽपि कदन्नभुक् ।
परान्नपरितुष्टोऽहं राघवेन्द्रार्य रक्ष माम् ॥ २४॥
क्षणशः कणशोऽप्यर्थं सङ्गृह्य च पिशाचवत् ।
रक्षन्नदाता चाभोक्ता दुर्मुखो दुरहङ्कृतिः॥ २५॥
पुत्रपत्नीगृहाद्येषु सक्तोऽहं भर्त्सितोऽपि तैः ।
कर्मज्ञानेन्द्रियैः पापी गुरुराजानुरक्ष माम् ॥ २६॥
गुरुवार्ये पुराणादावनादरणशालिनः ।
त्वद्भक्तान् विष्णुभक्तांश्चाप्यवज्ञातुश्च सज्जनान् ॥ २७॥
स्वमाहात्म्यप्रकाशार्थमत्यन्तानृतभाषिणः ।
गुरुब्राह्मणदेवानां पूजां दम्भेन कुर्वतः ॥ २८॥
अपराधाननेकान् मे क्षमस्व मयि वत्सलः
पञ्चयज्ञाद्यकरणादतिथीनामुपेक्षणात् ॥ २९॥
श्रौतस्मार्ताग्निराहित्याद् अमाश्राद्धाद्वभावतः ।
हव्यकव्यादि लोपाच्च पङ्क्तिभेदाच्च पातकात् ॥ ३०॥
अभक्ष्यभक्षणाच्छादि पात्रापात्राविवेचनात् ।
वर्णोक्ताचारराहित्याद्राघवेन्द्रार्य रक्ष माम् ॥ ३१॥
नीचसेवालेख्यवृत्ति माढापत्यादि जीवनात् ।
असत्सु पक्षपाताच्च पौरोहित्यात् दुरन्नतः ॥ ३२॥
दिवा-सन्ध्यारजः श्राद्ध-पर्वादिषु वधूरतेःल्
ऋतौ पत्न्यनुगमनात् पातकाद्रक्ष मां गुरो ॥ ३३॥
कन्यागोऽजादिमहिषीघृततैलादि विक्रयात् ।
एकादश्यन्ननिघसाद्द्वादश्युल्लङ्घनादपि ॥ ३४॥
दिवास्वापात्परस्त्रीणां विधवानां च सङ्गतः ।
पत्नीसुतादिनिर्व्यजत्यागात् ताताव मां गुरो ॥ ३५॥
परस्त्रीगणिकादीनां पुरुषस्यानुकूलनात् ।
हिंसनाद्गोद्विजस्त्रीणां जारगर्भनिपातनात् ॥ ३६॥
नरस्तुतिर्द्यूतचौर्याद्भार्यापण्येन जीवनात् ।
जारजानां स्वपुत्राणां लालनाच्चाव मां गुरो ॥ ३७॥
विषाग्निशस्त्रपाषाणगलबन्धाभिचारकैः ।
हिंसनोच्चाटनाद्बन्धुमातापित्रादिवर्जनात् ॥ ३८॥
स्वस्रादिदूषणात् पत्नीपतिविद्वेषवश्यतः ।
मित्रभित् कूटसाक्षित्वाद्राघवेन्द्रार्य रक्ष माम् ॥ ३९॥
ज्ञात्वापि जारिणीं पत्नीं तया सङ्गम्य लोभतः ।
वंशाधःपातनात् तस्यामपत्योत्पादनादपि ॥ ४०॥
परस्व-परपत्नीनां बलादनुभवादपि ।
ऋणापहरणाच्चापि मामुद्धर कृपानिधे ॥ ४१॥
इत्यादि बहुपापौघात् ज्ञात्वाऽज्ञात्वा कृतादपि ।
तात श्रीराघवेन्द्रार्य परिपालय मां सुतम् ॥ ४२॥
पापिनामग्रगण्योऽहं दयालूनां त्वमग्रणीः ।
त्वां विना न हि जानेऽन्यं ममाद्योद्धारकारणम् ॥ ४३॥
श्रीराघवेन्द्र गुरुराज कृपासमुद्र
कारुण्यपूर्णकरुणाजलधे कृपाब्धे ।
भक्तानुकम्पितमनो दयापयोधे-
ऽनुक्रोशसान्द्र करुणालय मां प्रपाहि ॥ ४४॥
इति कृष्णावधूतेन गुरुपादानुजीविना ।
स्तवराजमिमं प्रोक्तं रहस्यं पापनाशकम् ॥ ४५॥
पठतां सर्वपापानि नश्यन्त्येव न संशयः ।
इदं दत्तवरस्तोत्रं गुरुराजेन सादृतम् ॥ ४६॥
प्रगोप्तव्यं प्रयत्नेन दद्याच्छ्रद्धालवे गुरौ ।
अभक्ताय न दातव्यं कलिदोषनिवारकम् ॥ ४७॥
दिनं वा सकृदप्येतत् पठतां योग्यतामनु
अनाचाररतानां वा वर्तते पितृवद्गुरुः ॥ ४८॥
बालोऽसत्यं वदति पितरं स्वापराधेऽपि धार्ष्ट्या
तात त्वं मेऽवद इदमतोऽकार्षमेतत्तथेति ॥ ४९॥
श्रुत्वा तातस्तनयवचनं प्रेमतो मोदते हि ।
त्वं मोदेथाः शिशुवचसि मे राघवेन्द्रार्य तात ॥ ५०॥
गुरुराज पिता मे कृपावानिति निश्चित्य मयोद्धतं व्यचारि ।
त्वदनन्यगतीर्ममापराधान् सुतवात्सल्यमुपागतः क्षमस्व ॥ ५१॥
इति श्रीकृष्णावधूतविरचिते श्रीराघवेन्द्रतन्त्रे प्रत्यक्षसिद्धिप्रदे
रहस्योपाख्याने गुरुराजस्तवराजो नाम पञ्चदशपटलः ।
Proofread by Gopalakrishnan, PSA Easwaran