प्रसन्नशान्तिः
सदा सर्वदा शान्तोऽहं गुरो ! त्वत्पादसेवया ।
धन्योऽहं कृतकृत्योऽहं प्रसादात्तव पावनात् ॥ १॥
शरण्यो गुरुराराध्यः तारकः पालको हि सः ।
प्रसन्नशान्तिदाता च प्रभुर्भर्ता च तत्त्वतः ॥ २॥
अतीव शुद्धबोधेऽस्मि स्थिरप्रतिष्ठितः सदा ।
कृपया गुरुदेवस्य निश्चलोऽहं सुखी मुदा ॥ ३॥
नमो दिव्याय शान्ताय श्रीधराय निजात्मने ।
सत्यधर्मस्वरूपाय सच्चित्सौख्यस्वरूपिणे ॥ ४॥
सौम्याय नित्यतृप्ताय भूमानन्दाय सत्कृते ।
सद्गुरवे नमो नित्यं सर्वमङ्गलरूपिणे ॥ ५॥
नमः शान्ताय दिव्याय सत्यधर्मस्वरूपिणे ।
स्वानन्दामृतातृप्तय श्रीधराय नमो नमः ॥ ६॥
ॐ शान्तिः शान्तिः शान्तिः ।
इति श्री पृथ्वीराज भालेरावः अथवा सुव्रतविरचिता
प्रसन्नशान्तिः समाप्ता ।
Proofread by Paresh Panditrao