प्रणामप्रणयस्तवम्
कन्दर्पकोटिरम्याय स्फुरदिन्दीवरत्विषे ।
जगन्मोहनलीलाय नमो गोपेन्द्रसूनवे॥ १॥
कृष्णलाकृतहाराय कृष्णलावण्यशालिने ।
कृष्णाकूलकरीन्द्राय कृष्णाय करवै नमः ॥ २॥
सर्वानन्दकदम्बाय कदम्बकुसुमस्रजे ।
नमः प्रेमावलम्बाय प्रलम्बारिकनीयसे ॥ ३॥
कुण्डलस्फुरदंसाय वंशायत्तमुखश्रिये ।
राधामानसहंसाय व्रजोत्तंसाय ते नमः ॥ ४॥
नमः शिखण्डचूडाय दण्डमण्डितपाणये ।
कुण्डलीकृतपुष्पाय पुण्डरीकेक्षणाय ते ॥ ५॥
राधिकाप्रेममाध्वीकमाधुरीमुदितान्तरम्।
कन्दर्पवृन्दसौन्दर्यं गोविन्दमभिवादये ॥ ६॥
शृङ्गाररसशृङ्गारं कर्णिकारात्तकर्णिम् ।
वन्दे श्रिया नवाभ्राणां बिभ्राणां विभ्रमं हरिम् ॥ ७॥
साध्वीव्रतमणिव्रातपश्यतोहरवेणवे ।
कल्हारकृतचूडाय शङ्खचूडभिदे नमः ॥ ८॥
राधिकाधरबन्धूकमकरन्दमधुव्रजम् ।
दैत्यसिन्धुरपारीन्द्रं वन्दे गोपेन्द्रनन्दनम् ॥ ९॥
बर्हेन्द्रायुधरम्याय जगज्जीवनदायिने ।
राधाविद्युद्वृताङ्गाय कृष्णाम्भोदाय तै नमः ॥ १०॥
प्रेमान्धवल्लवीवृन्दलोचनेन्दीवरेन्दवे ।
काश्मीरतिलकाढ्याय नमः पीताम्बराय ते ॥ ११॥
गीर्वाणेशमदोद्दामदावनिर्वाणनीरदम् ।
कुन्दुकीकृतशैलेन्द्रं वन्दे गोकुलबान्धवम् ॥ १२॥
दैन्यार्णवे निमग्नोऽस्मि मन्तुग्रावमदार्दितः ।
दुष्टे कारुण्यपारीण मयि कृष्ण कृपां कुरु ॥ १३॥
आधारोऽप्यपराधानामविवेकहतोऽप्यहम् ।
त्वत्कारुण्यप्रतीक्षोऽस्मि प्रसीद मयि माधव ॥ १४॥
इति प्रमाणप्रणयस्तवं समाप्तम् ॥
Proofread by PSA Easwaran psaeaswaran at gmail.com