प्रार्थनादशकस्तोत्रम्
रमारमण मध्वादिदेशिक श्रीहृदब्जग ।
हयग्रीव कृपालो मे प्रार्थनां श्रुणु सादरम् ॥ १॥
अयोग्यविषये स्वामिन् सर्वथा न मनो भवेत् ।
चाञ्चल्यं मूलतश्छिन्धि दुराशां हर दूरतः ॥ २॥
दुर्बुद्धिं च न मे देहि दुःशास्त्रावर्तने रतिम् ।
हापयस्व च दुर्मानं दुर्गुणं मोचय प्रभो ॥ ३॥
दुःसङ्गं दुष्क्रियां छिन्धि हर लोकाटनात्पदौ ।
न नियोजय चक्षूंषि परदारादिदर्शने ॥ ४॥
दुष्प्रतिग्रहदुस्पर्शे करौ मा चोदय ध्रुवम् ।
अगम्यागमने गुह्यां घ्राणमाघ्राणनेऽसताम् ॥ ५॥
अपकर्षतु जिह्वां मे लोकवार्तादुरन्नतः ।
दुर्वार्तादुष्टशब्देभ्यो निवर्तय हरे श्रुती ॥ ६॥
भवदिच्छानुगं चेतो योग्यसद्विषयं भवेत् ।
यदृच्छालाभसन्तृप्तं निश्चाञ्चल्यं भवेत्वयि ॥ ७॥
सज्ञानं सर्वदा देहि सच्छास्त्रावर्तने रतिम् ।
सत्सङ्गं सत्क्रियां चैव पादौ त्वत्क्षेत्रसर्पणे ॥ ८॥
श्रीमध्वशास्त्रश्रवणे नियङ्क्ष्व श्रवणे सदा ।
हयास्य चक्षुषी चेमे दर्शने सन्नियोजय ॥ ९॥
करौ त्वदर्चने नित्यं सुखतीर्थस्य लेखने ।
त्वदालापे त्वदुच्छिष्टभोजने कुरु जिह्विकाम् ॥ १०॥
घ्राणं भवतु निर्माल्याघ्राणने नमने शिरः ।
देहि मे तु ज्ञानभक्तिपशुपुत्रधनादिकम् ॥ ११॥
प्रार्थनादशनं चैतत् त्रिकाले यः पठेन्नरः ।
तस्याभीष्टं हयास्योऽसौ दत्वा रक्षति सर्वदा ॥ १२॥
॥ इति श्रीमद्वादिराजपूज्यचरणविरचितं प्रार्थनादशकस्तोत्रं समाप्तम् ॥