परब्रह्मस्तोत्रम्
अद्य स्वस्थाय देवाय नित्याय हतपाप्मने ।
त्यक्तक्रमविभागाय चैतन्यज्योतिषे नमः ॥ १॥
अनन्तनामधेयाय सर्वाकारविधायिने ।
समस्तमन्त्रवाच्याय विश्वैकपतये नमः ॥ २॥
दिक्कालाद्यनवच्छिन्नाऽनन्त-चिन्मात्रमूर्तये ।
स्वानुभूत्येकमानाय नमः शान्ताय तेजसे ॥ ३॥
कर्णिकादिष्विव स्वर्णमर्णवादिष्विवोदकम् ।
भेदिष्वभेदि यत्तस्मै परस्मै महसे नमः ॥ ४॥
नमो वाङ्मनसातीत-महिम्ने परमेष्ठिने ।
त्रिगुणाष्टगुणानन्त-गुणनिर्गुणमूर्तये ॥ ५॥
यथा तथाऽपि यः पूज्यो यत्र तत्रापि योऽर्चितः ।
योऽपि वासोऽपि वा योऽसौ देवस्तस्यै नमोऽस्तु ते ॥ ६॥
नमः स्वतन्त्रचिच्छक्तिमुद्रितस्वविभूतये ।
अव्यक्त-व्यक्तरूपाय कस्मैचिन्मन्त्रमूर्तये ॥ ७॥
चराऽचर-जगतस्फार-स्फुरत्तामात्रधर्मिणे ।
दुर्विज्ञेयरहस्याय युक्तैरप्यात्मने नमः ॥ ८॥
इति परब्रह्मस्तोत्रं समाप्तम् ।
Proofread by Aruna Narayanan narayanan.aruna at gmail.com