पूर्वाचार्यवन्दना
नमामि रामानुजपादपङ्कजं,
वदामि रामानुजनाम निर्मलम् ।
स्मरामि रामानुजदिव्यविग्रहं
करोमि रामानुजदासदासताम् ॥ १॥
रामानुजस्य पदपङ्कजमाश्रयामि
रामानुजस्य करुणां मनसा दधामि ।
रामानुजस्य जनपादरजो वहामि
रामानुजाय नम इत्यनिशं वदामि ॥ २॥
बौद्धान्धकारपरिहारदिवाकराय
श्रीवैष्णवाम्बुनिधिपूर्णनिशाकराय ।
अद्वैतवादिकरियूथमृगाधिपाय
तस्मैनमोऽस्तु सततं यतिपुङ्गवाय ॥ ३॥
लोकानुद्धर्तुकामो धृतमनुजवपुर्भूतले योऽवतीर्णो
निर्जित्याशिष्य दुष्टान् कुमतिमति रां वैष्णवं कर्म तेने ।
ब्रह्मेशानापदि लभ्यं निखिलप्रतिपदं दत्तवांश्चाश्रितानां
श्रीमान् रामानुजो यो भवभुजगमुखात् पातु नित्यं दयालुः ॥ ४॥
इति पूर्वाचार्य वन्दना ॥
Proofread by PSA Easwaran psaeaswaran at gmail.com