श्रीपार्श्वनाथजयमाला
अथ श्रीपार्श्वनाथ जयमाला ।
वन्दे तं जिनपार्श्वनाथमनघं ! रत्नत्रयालङ्कृतं
ह्रीं बीजं मतिदुःखदावशमनं घोरोपसर्गापहम् ।
देवेन्द्राधिपतिं खगाधिपनतं वन्ध्यापिनारीसुतं
पद्मिनीसतिशासनं भयहरं नागेन्द्रसेवान्वितम् ॥ १॥
अमरनाथगणाधिपवन्द्यं मुनिजनार्यासेवितपादम् ।
भक्तिनम्रभवसागरपोतं वाक्यामृतरसपोषितभूतम् ॥ २॥
कृतोपसर्गं कमठैर्रिष्ठं जितवारातिभवान्तरश्रेष्ठम् ।
कुण्डलकुण्डलिनीकृतछत्रं वारितमेघाडम्बरशस्त्रम् ॥ ३॥
कर्मपर्वतहतासमवज्रं भयतमवारणसूर्यसुसज्जं
केवलज्ञानविलोकनदक्षं बोधितलोकालोकविपक्षम् ॥ ४॥
राजितसमवसरणसुनिधानं चामरछत्रसिंहासनभानम् ।
सुरासुरखेचरतिष्ठति सौख्यं द्वादशभासाहितसन्मुख्यम् ॥ ५॥
धर्मप्रकाशितलक्षणसहितं मूलदयानिधिपापविरहितम् ।
जन्तूत्तारणसमरथसूरं भव्यकमलवाक्यामृतपूरम् ॥ ६॥
देवी पद्मावति वामे विशालं रक्षतु शासनमुखद्रुमजालम् ।
दक्षिणदिशि सोहै फणिराजं विध्ननिवारणदेवविराजम् ॥ ७॥
ईदृग् विधि पार्श्वजिनं प्रणम्यं अनन्तचतुष्टयगम्यागम्यम् ।
ये नरनारि त्रिकालं पूजन्ति ते मन वछित सफल लहन्ति ॥ ८॥
नाग नागिणी अतिशय धारी उधर्या दम्पती जनसुखकारी ।
क्रधोरघनदुःखनिवारी वञ्च्छितफल अतिदायक भारी ॥ ९॥
धत्ता (मालिनीं ! )
आपद्विविधहारी सम्पदासौख्यकारी
त्रिभुवनपदधारी सिद्धिलोकाग्रसूरी ।
जलबहुविधपूरैर्गन्धमाल्यादिसारै-
जिनवरमुखबिम्बं पूजितं भावभकया ॥ ९॥
ॐ ह्रीं क्रौँ महार्थम् ॥
इति श्रीपार्श्वनाथ जयमाला सम्पूर्णा ।
Proofread by DPD