श्रीनित्यानन्दद्वादशकम्
योऽनन्तोऽनन्तवक्त्रैर्निरवधि हरिसङ्कीर्तनंसंविधत्ते
यो वा धत्ते धरित्रींशिरसि निरवधि क्षुद्रधूली कणेव ।
यः शेशश्चत्रशय्यासनवसनविधैः सेवते ते यदर्थाः
श्रीनित्यानन्दचन्द्रम्भज भज सततङ्गौरकृष्णप्रदन्तम् ॥ १॥
अंशैर्यः क्षीरशायी सकल भुवनपः सर्व जीवान्तरस्थो
यो वा गर्भोदशायीदशशतवदनो वेदसूक्तैर्विगीतः ।
ब्रमाण्डाशेष गर्भा प्रकृतिपतिपतिर्जीवसङ्घाश्रयाङ्गः
श्री नित्यानन्दचन्द्रम्भज भज सततङ्गौरकृष्णप्रदन्तम् ॥ २॥
यस्यांशो व्युहमध्ये विलसति परमव्योम्नि सङ्कर्षणाख्य
आतन्वन् शुद्धसत्त्वंनिखिलहरिसुखञ्चेतनंलीलया च ।
जीवाहङ्कारभावास्पद इति कथितः कुत्रचिज्जीववद्यः
श्रीनित्यानन्दचन्द्रम्भज भज सततङ्गौरकृष्णप्रदन्तम् ॥ ३॥
यश्चादि व्युहमध्ये प्रभवति सगणो मूलसङ्कर्षणाख्यो
द्वारावत्यान्तदूर्द्धे मधुपुरि वसति प्राभवाख्यो विलासः ।
सर्वांशी रामनामा व्रजपुरि रमते सानुजो यः स्वरूपे
श्रीनित्यानन्दचन्द्रम्भज भज सततङ्गौरकृष्णप्रदन्तम् ॥ ४॥
श्रीकृष्णप्रेमनामा परमसुखमयः कोऽप्यचिन्त्यः पदार्थो
यद्गन्धात्सज्जनौघा निगमबङ्हुमतम्मोक्षमप्याक्षिपन्ति ।
कैवल्यैश्वर्यसेवाप्रदगण इति यस्याङ्गतः प्रेमदातुः
श्री नित्यानन्दचन्द्रम्भज भज सततङ्गौरकृष्णप्रदन्तम् ॥ ५॥
यो बाल्ये लीलयैकः परममधुरया चैकचक्रानगर्य्यां
मातापित्रोर्जनाना मथ निजसुहृदांह्लादयंश्चित्तचक्रम् ।
तीर्थान् वभ्राम सर्वानुपहृत जनको न्यासिना प्रार्थितश्च
श्रीनित्यानन्दचन्द्रम्भज भज सततङ्गौरकृष्णप्रदन्तम् ॥ ६॥
भ्रामम्भ्रामञ्च तीर्थान् यतिमुकुटमणि माधवेन्द्र प्रसङ्गात्
लब्धोल्लासः प्रतिक्ष्य प्रकटित चरितङ्गौरधामाजगाम ।
श्रीगौरः श्रीनिवासादिभिरपि यमावापालये नन्दनस्य
श्रीनित्यानन्दचन्द्रम्भज भज सततङ्गौरकृष्णप्रदन्तम् ॥ ७॥
प्राप्ताज्ञो गौरचन्द्रादखिलजन गणोद्धारनामप्रदाने
यः प्राप्य द्वौ सुरापौ कलिकलुषहतौ भ्रातरौ ब्रह्मदैत्यौ ।
गाढप्रेम प्रकाशैः कृतरुधिरवपुश्चापि तावुज्जहार
श्रीनित्यानन्दचन्द्रम्भज भज सततङ्गौरकृष्णप्रदन्तम् ॥ ८॥
साक्षाद्गौरो गणानांशिरसि यदवधूतस्य कौपीनखण्डं
सन्धर्त्तुञ्चादिदेशासव यवन वधू स्पृष्टदृष्टोऽपि वन्द्यः ।
ब्रह्माद्यानामपीति प्रभुपरिहृतकानामपि स्वेष्टपीटः
श्रीनित्यानन्दचन्द्रम्भज भज सततङ्गौरकृष्णप्रदन्तम् ॥ ९॥
उद्धर्त्तुञ्ज्ञानकर्म्माद्यपहतचरितान् गौरचन्द्रो यदासौ
न्यासङ्कृत्वा तु माया मृगमनुसृतवान् ग्राहयन् कृष्णनाम ।
तच्चायेवान्वधावत्स्थलजलगहने योऽपि तस्येष्टचेष्टः
श्री नित्यानन्दचन्द्रम्भज भज सततङ्गौरकृष्णप्रदन्तम् ॥ १०॥
श्रीराधाप्रेमलुब्धो दिवसनिशितदास्वादमत्तैक लीलो
गौरो यञ्चादि देश स्वपरिकरवृतङ्कृष्णनाम प्रदातुम् ।
गौडेऽबाधन्ददौ यः सुभगगणधनङ्गौरनामप्रकामं
श्रीनित्यानन्दचन्द्रम्भज भज सततङ्गौरकृष्णप्रदन्तम् ॥ ११॥
श्रीराधाकृष्णलीलारसमधुरसुधास्वादशुद्धैकमूर्तौ
गौरे श्रद्धान्दृढाम्भो प्रभुपरिकरसम्राट् प्रयच्चाधमेऽस्मिन् ।
उल्लङ्घ्याङ्घ्रिंहि यस्याखिलभजनकथा स्वप्नवच्चैव मिथ्या
श्रीनित्यानन्दचन्द्रम्पतितशरणदङ्गौरदन्तम्भजेऽहम् ॥ १२॥
इति श्रील भक्ति रक्षक श्रीधर देव गोस्वामी विरचितं
श्रीनित्यानन्दद्वादशकं सम्पूर्णम् ।