श्रीनिम्बार्कगायत्री मन्त्र जपविधिः
विनियोगः-
ॐ अस्य श्रीनिम्बार्क गायत्री मन्त्रस्य श्रीगौरमुख ऋषिः,
गायत्री छन्दः, श्रीनिम्बार्को देवता, सुदर्शनो बीजम्, पुराणं शक्तिः,
विततं कीलकं श्रीनिम्बार्कप्रीत्यर्थे जपे विनियोगः ।
ऋष्यादि न्यासाः--
श्रीगौरमुखाय ऋषये नमः शिरसि ।
गायत्री छन्दसे नमो मुखे ।
श्रीनिम्बार्काय देवाय नमो हृदये ।
सुदर्शनाय बीजाय नमो गुह्ये ।
पुराणाय शक्तये नमः पादयोः ।
वितताय कीलकाय नमः ।
सर्वाङ्गे ।
करन्यासाः--
ॐ निम्बार्काय अङ्गुष्ठाभ्यां नमः ।
विद्महे तर्जनीभ्यां नमः ।
आद्याचार्याय मध्यमाभ्यां नमः ।
धीमहि अनामिकाभ्यां नमः ।
तन्नश्चक्रं कनिष्ठिकाभ्यां नमः ।
प्रचोदयात् करतलकरपृष्ठाभ्यां नमः ।
हृदयादिन्यासाः--
ॐ निम्बार्काय हृदयाय नमः ।
विद्महे शिरसे स्वाहा ।
आद्याचार्याय शिखायै वषट् ।
धीमहि कवचाय हुम् ।
तन्नश्चक्रं नेत्रत्रयाय वौषट् ।
प्रचोदयात्। अस्त्राय फट् ।
ध्यानम्--
निम्बादित्य ! महाबाहो ! सर्वपाल ! सुदर्शन ।
आद्याचार्य ! रङ्गदेवि ! त्वमेव शरणं मम ॥
मन्त्रः--
ॐ निम्बार्काय विद्महे आद्याचार्याय धीमहि तन्नश्चक्रं प्रचोदयात् ।
यथासंख्याकान् जपान् विधायोत्तरन्यासान् कृत्वा
निवेदयेत्-
गुह्यातिगुह्यगोप्ता त्वं गृहाणास्मत्कृतं जपम् ।
सिद्धिर्भवतु मे देव ! त्वप्रसादात् सुदर्शन !॥
कृतेनानेन यथासंख्याकेन श्रीनिम्बार्क-गायत्री मन्त्र
जपेन भगवान् श्रीनिम्बार्काचार्यः प्रीयताम् ।
इति श्रीनिम्बार्कगायत्री मन्त्र जपविधिः समाप्ता ।
Proofread by Chandrasekhar Karumuri