नवरत्नमालिकामञ्जूषा अथवा नाथनवरत्नमालिका
श्रीगणेशाय नमः
श्रीमहेशनाथकृता श्रीनाथनवरत्नमालिका
श्रीभासुरानन्दनाथविरचितया
मञ्जूषाख्यया व्याख्यया संवलिता
श्रीनाथादित्रितयं नत्वा गम्भीररायसूरिसुतः ।
नाथनवरत्नमालागूढार्थव्यावृतिं तनुते॥
इह खलु निखिलोपासनाः गुरुप्रसादलभ्याः, ``गुरुमूलाः क्रियाः सर्वाः ''
इति वचनात् ।
तत्प्रसादश्च तत्स्वरूपोपास्तिमन्तरा दुर्लभः । तद्रूपं तु त्रिविधम् -
स्थूलं, सूक्ष्मं, परं चेति । तेषु आद्यं, ``सहस्रदलपङ्कजे
सकलशीतरश्मिप्रभम्'' इत्यादिना करणचरणाद्यवयववैशिष्ट्येणोक्तं
प्रसिद्धम् । द्वितीयं तु गुरुपादुकामन्त्ररूपम् । तृतीयं वासनात्मकम् ।
तच्च
रहस्यत्वात् सङ्केतभाषयोपासकानुजिधृक्षया विवृणोति-
हंसः सोऽहं मन्त्रमयैः श्वासनिकायै-
र्या गायत्री जन्तुषु सर्वेषु पिनद्धा ।
सन्नाविरभूद्वासनया य-
स्तं सन्मार्गं मत्तमयूरं गुरुमीडे ॥ १॥
हंस इति । प्राथमिकसृष्टौ यद्बिन्दुत्रयं प्रादुरभूत् । तत्र बिन्दुः
पुमान्; विसर्गः प्रकृतिः; ताभ्यां क्रमेण स्वस्य विशिष्टौ
हकारसकारावुत्पन्नौ । सोऽहं हंसः, स त्वजपानामको मन्त्रः ।
तस्यैव वैपरीत्यकथनेन सोऽहमितिपरमात्ममन्त्नः; परमात्मनि
योगे तु, ``पराप्रासादमन्त्रः'' इत्यादिशारदायां चरमपटलेऽन्यत्र
चोक्तम् । तदिदं परस्परभिन्नमन्त्रपञ्चकमुच्छ्वासनिश्वासरूपम् ।
``उच्छ्वासे चैव निःश्वासे हंस इत्यक्षरद्वयम् ।'' इति वचनात् ।
स च मन्त्रः सर्वैः प्राणिभिः अहोरात्रसंमिते काले
षट्शताधिकैकविंशतिसहस्र(२१६००)मावर्त्यते । सोऽयमनायासेन जपः ।
तथात्वेन ज्ञानमात्रेण मोक्षप्रदत्वात्सर्वमन्त्रोत्तमः । तदुक्तम्-
``हंसः पदं परेशानि प्रत्यहं जपते नरः ।
मोहान्धो यो न जानाति मोक्षस्तस्य न विद्यते॥
श्रीगुरोः कृपया देवि ज्ञायते जप्यते ततः ।
तस्माच्छ्वासैश्च निःश्वासैस्तदा बन्धक्षयो भवेत्॥
अजपा नाम गायत्री योगिनां मोक्षदायिनी ।
तस्या विज्ञानमात्रेण नरः पापैः प्रमुच्यते॥
अनया सदृशी विद्या चानया सदृशो जपः ।
अनया सदृशं पुण्यं न भूतं न भविष्यति ॥''
इति च तदुपासनेतिकर्तव्यता शारदायां चतुर्दशे पटले, अन्यत्र
च विस्तृतेति नेहोच्यते । गुरुदेवतामन्त्राणामैक्यं च, ते सर्वे श्वासाः
नाथरूपा एव ।
अक्षरार्थस्तु - हंस इत्यजपामन्त्रादिरूपश्वाससमूहाभिन्ना या
गायत्री सर्वप्राणिष्वाच्छन्ना वर्तते, तदभिन्नः सन् वासनात्मकरूपेण
यः प्रादुर्भूतः, तं गुरुं नौमीति । स एव च गुरुः, सतां मार्गः,
मुक्तिपुरगमनोपायः ; ''गुरुरुपायः'' इति शिवसूत्रात् । आनन्दमन्त्रो
हि मयूरः स्वपिञ्च्छावयवान् प्रसार्य नृत्यकाले यथा विचित्ररूपो
दृश्यते, तेन तथा कालान्तरे, अतः तस्य तद्रूपमाच्छन्नम् । एवं
गुरोरपि वक्ष्यमाणं विचित्ररूपमाच्छन्नमस्तीति गौण्या मत्तमयूरपदेन
गुरुः स्तूयते ।
अस्मिन् स्तोत्रे दशापि श्लोकाः मत्तमयूराभिधवृत्तरूपाः । तल्लक्षणं
चोक्तं पिङ्गलमुनिना -
``मत्तमयूरं म्तौ य्सौ ग्समुद्ग(४) नवकौ'' इति ।
मतयसगणाः गुरुश्च, प्रतिपदं चतुर्भिर्नवभिश्च
यतिरिति तदर्थः । प्रकृतेऽप्युक्तैरेव पदैः सूच्यार्थकथनादिह
मुद्रालङ्कारः । तल्लक्षणं चोक्तं चन्द्रालोके-
``सूच्यार्थसूचकं मुद्रा प्रकृतार्थपदै: पदैः ।
नितम्बगुर्वी तरुणी दृग्युग्मविपुलालसा ॥''
इति । सङ्केतरीत्या अनुक्तश्वाससङ्ख्याया अपि पदद्वयेन सूचनात् स
एवालङ्कारः । तत्प्रकारस्तु -
``क-ट-प-य-वर्गभवैरिह पिण्डान्त्यैरक्षरैरङ्का ।
नञ्शून्यं विज्ञेयं तथा स्वरे केवले कथिते ॥''
इति श्लोकरीत्या मकारः पञ्चसङ्ख्याङ्के ; तकारः षष्ठाङ्के ;
पुनर्मकारः पञ्चाङ्के, यकाररेफगकाराः एकद्वित्र्यङ्केषु
सङ्केतिताः । तथा, ``अङ्कानां वामतो गतिः''
इत्युक्तरीत्या लेखने कृते सति, म ५, त्त ६, म ५, यू १, रे २,
पदेन एकविंशतिसहस्राणि पञ्चशतानि पञ्चषष्टिश्च
कथितानि भवन्ति । सन्; विद्यमानो मार्गः (३५)
यस्मिन्निति व्युत्पत्या मार्गशब्दोक्तपञ्चत्रिंशत्सङ्ख्यया अस्या मेलनेन
षट्शताधिकैकविंशतिसहस्रसङ्ख्यानिष्पत्ति-(२१६००)रिति । एवमग्रेऽपि
सङ्केतोऽवगन्तव्यः ॥ १॥
तन्त्रराजे हि सप्तविंशे पटले श्वासानां वासनाद्वयमुक्तम्
``सङ्ख्याभिर्वासनाव्याप्तिं श्वासानां शृणु सुन्दरि ।
यया विदितया मन्त्री सदा दर्शनवान्भवेत् ॥''
इत्यादिना । तयो: प्रथमां वासनामुद्यदित्यादिभिः चतुर्भिः श्लोकैः प्रदर्शयति -
उद्यद्भास्वन्मण्डलकालाद्दिननित्या-
विद्यारूपः प्राप षडथीनरभावम् ।
यस्तीर्थात्मा मण्डलपूर्णाक्षरवर्ष्मा
तं सन्मार्गं मत्तमयूरं गुरुमीडे ॥ २॥
उद्यदिति । सूर्यमण्डलोदयकालमारभ्य प्रथमतः श्वासा
एकैकदिनविद्यारूपाः । अ आ इ ई इत्यारभ्य क्ष: क्षायै इत्यन्ता मन्त्राः
षट्त्रिंशदधिकसप्तदशोत्तरविंशतिसहस्रसङ्ख्याका (५७६x३६=२०७३६) ।
षट्त्रिंशद्वर्णा अपि षोडशस्वरसंयोगेनोक्ताः ३६x१६=(५७६) प्रतिदिनमेवं
षट्त्रिशद्दिनपर्यन्तं जप्तास्तावन्त एव भवन्ति । यतस्तन्त्रे प्रसिद्धः
एता एव स्वीदैवत्यतया विद्या इत्युच्यन्ते । ``स्त्रीदैवत्या स्मृता विद्या
पुंदैवत्यास्तु मन्त्रकाः'' न इति कोशात् । गुरुनाथस्तु तावद्रूपः ।
ते च विद्याया अर्था योगिनी हृदयव्याख्यायामस्माभिः प्रपञ्चिताः ।
षडथीनरपदेन दिननित्याविद्यानां सङ्ख्योक्ताः (२०७३६) । एवमुत्तरत्र
सर्वत्रापि सङ्ख्यासङ्केताक्षरपदानां श्रीगुरोः श्लेषेण द्व्यर्थता अवसेया ।
तत्परतः षट्सप्तत्युत्तरपञ्चशतं (५७६) श्वासाः पूर्णमण्डलाक्षररूपाः ।
अकार एकः, ककारादिक्षकारान्ताः पञ्चत्रिंशद्व्यञ्जनानि चेत्येवं
षट्त्रिंशदक्षराणां प्रत्येकमकारादिषोडशस्वरसंयोगे सत्युक्तसङ्ख्यानि
(५७६) अक्षराणि भवन्ति । तानि पूर्णमण्डलपदेन दिनार्णवपदेन च तन्त्रे
व्यवहियन्ते । तदभिन्नं वर्ष्मा, शरीरं यस्य सः, तीर्थात्मा (५७६) गुरुरूपा एव,
``तीर्थमृषिजुष्टजले गुरौ'' इत्यमरः ॥ २॥
तीर्थात्मापदं चोक्तसङ्ख्यां (५७६) व्यनक्ति -
तत्पश्चात्यप्राणसमूहनवनाथा
यः षट्त्रिंशत्तत्त्वमयः षोडश नित्याः ।
एवं रीत्या वासितसंध्यात्रयमूर्ति-
स्तं सन्मार्गं मत्तमयूरं गुरुमीडे ॥ ३॥
तदिति । पूर्णमण्डलात् परे नव (९) श्वासाः प्रकाशादिसुभगान्ता
नाथनवकरूपाः । ततः परे शिवादिक्षित्यन्ततत्त्वरूपाः षट्त्रिंशत् (३६) ।
तदुत्तरं त्रिपुरसुन्दरीकामेश्वर्यादिचित्रान्तरूपास्तु नित्याः षोडश (१६) ।
एत एव क्रमेण संध्यात्रये उपास्यन्ते । तेन तद्वासनारूपा गुरुरेवेत्यर्थः ॥ ३॥
श्वासैः षष्टया षष्टिघटीदैवतरूपो (६०)
मेषप्रष्टद्वादशशशि (१२) प्रतिमानः ।
अर्काद्यात्मा यो नवसङ्ख्याग्रहमूर्ति-
स्तं सन्मार्गं मत्तमयूरं गुरुमीडे ॥ ४॥
श्वासैरिति । तदनन्तरं विसर्गरहितानां पञ्चाशन्मातृकाणां
दशाक्षरैरेकैको वर्ग इत्येवं पञ्च वर्गाः; अ (६०), ए (६०), च
(६०), त (६०), य (६०) मानः । तेषु प्रथमवर्गस्य आदावन्ते च जपे
सति, षष्टिर्वर्णा अहोरात्रघटिका रूपा भवन्तीति तन्त्रे स्पष्टम् ।
नित्यश्वासानन्तरं षष्टिः श्वासाः तद्देवतात्मानः (६०); ततो द्वादश
मेषादिराशिरूपाः । प्रष्टशब्दोऽग्रेसरवाची सन् प्रभृतिपरः,
``प्रष्टोऽग्रगामिनि'' इति निपातनात् । (१२) तदुत्तरं नव श्वासाः (९)
अर्कादिनवग्रहरूपाः; तत्स्वरूपो गुरुरित्यर्थः ॥४॥
पञ्चात्मा भूतनिकायो गतमायो यः
पञ्चाशद्वर्ण (५०) वपुश्चक्रगताभिः ।
शक्त्यालीभिः सङ्गतिमानेकनवत्या
तं सन्मार्गं मत्तमयूरं गुरुमीडे ॥ ५॥
पञ्चात्मेति । ग्रहात्मकश्वासानन्तरं पञ्च श्वासाः
आकाशादिपञ्चभूतरूपाः (५) । तदुत्तरं पञ्चशच्छ्वासाः मातृकारूपाः
(५०) तासामेकपञ्चाशतो (५१) मध्येऽपि सर्गस्वरत्यागात्तच्छेषेणाह
- गतमाय इति । मायाशब्दोऽपि सर्गस्वरवाचकः, तद्रहित इत्यर्थः ।
तदनन्तरमेकनवतिश्वासाः चक्रश्चिदावरणशक्तिसमूहपराः ।
तासामेकनवतित्वं (९१) मूल एव नवमश्लोके विशदीकरिष्यते । ततश्च
पूर्वोक्तदिननित्याविद्या (२०७३६) पूर्णमण्डला (५७६) नवनाथ (९) तत्त्व
(३६) नित्या (१६) घटिका (६०) राशि (१२) नवग्रह (९) भूत (५) मातृका (५०)
वर्णशक्ति (९१) सङ्ख्यानामेकीकरणे श्वाससङ्ख्यापूर्तिः (२१६००) संपद्यते ।
तदुक्तं तन्त्रराजे -
``नित्यातत्त्वाप्तिविद्यानां सङ्ख्याः स्युः पूर्वमेकशः ।
ततो दिनार्णाः संध्याश्च ततश्च घटिकार्णकाः॥
राशयो द्वादश ततो ग्रहभूतानि पञ्च वै ।
मातृकाश्चापि पञ्चाशच्छ्रीचक्रस्थाश्च शक्तयः॥
सैका नवतयः प्रोक्ता देवी सर्वात्मना स्थिता ।''
इति । नित्याः षोडश (१६) स्वराः, तत्त्वाक्षराणि (३६) पूर्वोक्तानि,
तेषामाप्तिः परस्परसंयोगविशेषरूपः प्रस्तरः तत्संवर्धितानां
दिननित्याविद्यानामित्यर्थः । शिष्टं स्पष्टम् ॥ ५॥
एतावता प्रबन्धेन श्वासानामवयवशो विभागेन वासना उपदिश्येदानीं
संपूर्णस्यैव श्वाससमूहस्यैकैका वासना उपदिशति -
यद्वा पञ्चाशल्लिपिपीडैकरदाना-
मावृत्त्यासीद्यः फलवान् देशिकवर्यः ।
ज्ञानोत्तुङ्गो (३६००) डरलकसहषट्कवृतै-
स्तं सन्मार्गं मत्तमयूरं गुरुमीडे ॥ ६॥
यद्वेति । उक्तानां वक्ष्यमाणानां च वासनानामन्यतमानुसंधाने
विकल्पद्योतनार्थो वाकारः । इमाश्च वासना मूलेऽनुक्ता अपि
पूज्यपादमुखावगन्तव्या इति तु मनोरमाकारः ।
``अथ षोडश नित्यानां कालेन प्राणतोच्यते ।
मातृकाभूतनाथाद्यैः श्रीचक्रेण च शक्तिभिः ॥''
इति पटलारम्भप्रतिज्ञाश्लोके सूचिता इति तु निधिकारः । कालेन प्राणतः
श्वासात्भककालभेदः । अत्राद्यपदेन ग्रहतत्त्वनित्याघटिकाराशयो
गृह्यन्ते । श्रीचक्रशब्देन तदन्तर्गतत्रैलोक्यमोहनादिनवचक्राणि ।
शक्तिशब्देन श्रीचक्रस्थाः षण्णवतीः शक्तय उच्यन्ते ।
वस्तुतस्तु - मातृकापदेन गणेशग्रहनक्षत्रयोगिनीराशिपीठानां
लघुषोढान्यासदेवतारूपाणां ग्रहाणां, तैः सह मातृकाभेदस्तु
तन्त्रराज एव ``गणेशग्रहनक्षत्र-'' इत्यादिद्वादशश्लोकीस्तवने
कथनात् । गुरुदेव्याः तैः सहाभेदस्तु योगिनीहृदये कौलिकार्यप्रकरणे
वर्णनात्; नित्याहृदये, ``संप्रदायोक्तं स्फुटोपायेन भावयेत्''
इति वचनेन योगिनीहृदयोक्तभावनासापेक्षतया स्वतन्त्रे स्वीकारात् ।
तस्मादाद्यपदेननित्यातत्त्वादेरेव ग्रहणम्; लिपयः, अकाराद्या
वर्णाः; पीठाः, कामरूपादयः; एकरदाः, विघ्नेश्वरादयो गणेशाः;
एते त्रयोऽपि गतप्राया: सन्तः पञ्चाशदेव श्वाससङ्ख्या, पिण्डस्य
(२१६००) पञ्चाशता विभागे द्वात्रिंशदुत्तरचतुःशती (४३२) लब्धा ।
तेन तावद्वारमावृत्ता लिप्यादयो देवश्वासा इति वासनात्रयमावृत्तिश्च
दण्डकलितन्यायेन स्वस्वस्थानविवृद्ध्या वेति तु गुरुमुखादेव निर्णेयम् ।
फलवानिति पदेन लब्धसङ्ख्योक्तिः (४३२) । डाकिन्यादियोगिनीषट्कात्मकतया
श्वासवासनामाह - ज्ञानेति । ज्ञकारनकारौ शून्यपरौ, तकारगकारौ
षट्त्र्यङ्कपरे । तेन त्रिसहस्राणि षट्शतानीति ज्ञानोत्तुङ्ग (३६००)
पदेन सूचितानीत्यर्थः । षड्भिः श्वाससङ्ख्याविभागे तावत एव लाभात्
``डरलकसह'' इत्यनेन नामैकदेशेन नामग्रहणमिति न्यायेन डाकिन्यादय
उच्यन्ते । याकिन्या सह सप्तसङ्ख्या तु नाशङ्कनीया । ``शाक्तैः
षड्भिर्यथाक्षरैः'' इत्यादिना योगिनीहृदये षण्णामेव ग्रहणम् ।
``याकिन्याः षट्समष्टिरूपत्वेन व्यष्टितो भेदाभावात् सप्तानां
ग्रहणम्'' इत्यमृतानन्दव्याख्या तु सेतुबन्ध एवास्माभिर्निरस्ता ।
यत्तु योगिनीपदस्य वशिन्याद्यष्टकपरत्वेन काश्मीराणां व्याख्यानम्;
तत्पक्षोऽपि न दोषः । अष्टभिः श्वासानां विभागोऽपि
सप्तदशोत्तरसहस्रद्वयस्य लाभेन श्वाससङ्ख्याया निःशेषत्वसंभवात् ।
अत्रावृत्तेः पञ्चमाष्टमाक्षरयोः गुरुत्वस्यावश्यकत्वेऽपि तयोः
स्थाने द्विद्विलघुनिवेशौ, ``लौ सः'' इति सूत्रेण लघुद्वयस्य
गुरुकार्यकारित्वविधानबलात्स्वीकृतः । तत्सूत्रस्य मात्राच्छन्दोविषयकत्वेऽपि
वर्णच्छन्दसोऽपि कतिपयवृत्तेषु तदङ्गीकारो ज्ञापकसिद्ध इति तु
छन्दोभास्करादौ प्रपञ्चितमस्माभिः । प्रयोगेऽपि; ॒`वन्दे रामं
मरकतवर्णं मुनिवन्द्यम्'' इत्यादिः ॥ ६॥
नेत्रोद्गाढो(४३२०)देशिकराड्भूत(५)समूहै-
रेनो वारी यो नवनाथग्रहचक्रैः ।
नक्षत्रस्यावृत्तिभिरानन्दशरीर-
स्तं सन्मार्गं मत्तमयूरं गुरुमीडे ॥ ७॥
नेत्रेति । नेत्रांशे उद्गाढो दृढ इत्यनेन दूरदर्शित्वादिकं
गुरोरुक्तम् । पञ्चभूतसङ्ख्यायाः श्वासविभागे सति चत्वारि सहस्राणि
त्रीणि शतानि विंशतिश्च (४३२०) लभ्यन्त इति तावद्वारं मारुताः
श्वासाः गुरुरूपा एवेत्यर्थः । नेत्रोद्गाढपदेन तत्सङ्ख्या दर्शिता ।
नाथादिनवकरूपवासनात्रयमाह - एनो वारीति । पापहा महागुरुः
चतुःशताधिकसहस्रद्वयव्यावृत्त्या नाथादिद्वय इत्यर्थः । द्वयं वारा
वृत्त्यादि (२४००) नाथादिरूप इत्यर्थः । नवनाथा नवग्रहाः नवचक्राणि
चेति वासनात्रयम् । अष्टशतावृत्त्यागुरुर्नक्षत्ररूपोऽभूदित्याह -
नक्षत्रस्येति । जातावेकवचनम् । आनन्द (८००) शब्देनोक्तसङ्ख्या
प्रदर्शिता ॥ ७॥
नित्यावृत्तावीशलयः सन्नचलोऽभू-
न्नाड्यावृत्तौ राशिषु नानाजपरूपः ।
अभ्यस्यद्भिस्तत्त्वगणैरुन्नतमूर्ति-
स्तं सन्मार्गं मत्तमयूरं गुरुमीडे ॥ ८॥
नित्येति । षोडशनित्याभिः (१६) श्वासानां (२१६००) विभागे
सहस्रोत्तरसार्धत्रिशती (१३५०) लब्धा । ईशे, परमशिवे, लयो यस्य
स गुरुः; तत्सङ्ख्याकनित्यावृत्तिरूपः । ``दशध्यानसमो लयः'' इति
लक्षितसमाधिविशेषो लय इत्युच्यते । षष्टिनाडीदेवतासङ्ख्यया विभागे
तु अचलो भवेत्, षष्ट्युत्तरशतत्रयसङ्ख्यो (३६०) जातः । राशिषु;
राशिव्यावर्तमानेषु, नानाजपात्मा; अष्टशत्यधिकसहस्र (१८००) जपरूपः ।
षट्त्रिंशत्तत्त्वगणाभ्यासेन उन्नतस्वरूपः (६००) षट्शतसङ्ख्य इत्यर्थः ॥ ८॥
धृत्युर्वीशाष्टेन्द्रदिगाशाहियुगत्रि-
प्रोक्ताभिः पुंहेतिभिरम्बाभिरभिन्नः ।
आवृत्त्यैवं षण्णवतेर्यः शिखरात्मा
तं सन्मार्गं मत्तमयूरं गुरुमीडे ॥ ९॥
धृतीति । धृतयोऽष्टादश (१८) देवताः, भूपुरस्थाः अणिमादयो
दश (१०); ब्राह्म्याद्या अष्टौ (८) कादिमते तृतीयरेखाया अकथनेन
तत्रत्यमुद्रादेवतादशकस्याभावात् । उर्वीशाः षोडश (१६) कामाकर्षिण्याद्याः
षोडशदलपद्मस्थाः, अष्टौ (८) अनङ्गः कुसुमादयोऽष्टदलपद्मस्थाः ।
इन्द्राः चतुर्दश (१४) सर्वसङ्क्षोभिण्यादयो मन्वश्रगताः । दिशो
दश (१०) बहिर्दशारगाः सर्वसिद्धिप्रदादयः । आशा अपि दश (१०)
अन्तर्दशारगासर्वज्ञाद्याः । अहयोऽष्टौ (८) वशिन्याद्या अष्टकोणस्थाः ।
अम्बायुधदेवताश्चतस्रः (४); त्रिकोणगतकामेश्वर्यादिदेवतास्तिस्रः (३) एताः
संहत्यैकनवति (९१) सङ्ख्याकत्वेन पञ्चमश्लोके प्रोक्ताः तावतीनामेव
ग्रहणे श्वाससङ्ख्याया एकनवत्या विभागे निःशेषताया असंभवात्
विभाजकाङ्के पञ्चानां मेलनेन षण्णवतित्वमापादयितुमाह - पुंहेतिभिरिति ।
कामेश्वर्यायुधदेवताभिः चतसृभिरित्यर्थः । इमाः पञ्चनवतिभिः
(९९) अम्बाभिरभिन्नस्थाः प्रधानांशेष्वित्येकशेषाभिप्रायेण
अम्बाभिरित्युक्तम् । एवंप्रकारेण षण्णवतेर्देवतानामावृत्त्या शिखरात्मा
सर्वोत्तमस्वरूपो गुरुः सपादशतद्वयावृत्तिमानासीदित्यर्थः ।
ननु च ``चक्रेण शक्तिभिः'' इत्यत्र शक्तिसामान्यवाचकस्यापि
पदस्यैकानवतयः प्रोक्ताः । ``श्रीचक्रस्थास्तु शक्तयः
'' इत्यनेनोपसंहारादेकनवतिदेवताः सिद्ध्यन्तीति न पुंहेत्यादि
ग्रहणे मानं पश्यामः । न च तया सङ्ख्यया श्वाससङ्ख्याविभागे
निरवशेषतासंभवादेव पञ्चानामङ्कानां योग इति वाच्यम् । कस्यापि
कतिपयान्यूनतादिकल्पनेनापि संभवात् । धृत्यादिनवसङ्ख्याभिः प्रत्येकं
१८, १६, ८, १४, १०, १०, ८, ४, ३ विभजनेऽपि तत्संभवाद्वा इन्द्रसङ्ख्यया
विभागे द्वादशनामान्येतेषां राशिवासनाकल्पनासंभवात् ।
न चैवं वासनासाङ्कर्ये यथावस्थितैकनवतिविभागशेषस्यापि
वासनान्तरकल्पनयैवोपपत्तौ प्रतिचित्रदेवतासङ्ख्यानां
प्रातिस्विकं विभजकत्वकल्पना न स्यादिति वाच्यम् । एकनवत्या
विभागे त्रयस्त्रिंशतावशेषेण तस्योक्तमातृकादिभिन्नत्वेन
स्वेच्छया देवतान्तरकल्पनायामव्यवस्थापत्तिरिति चेत्,
मैवम् । इह संप्रदायस्यैव शरणत्वात् । अत एव मनोरमायां
शक्तिभिरिति पदमेकनवतिषण्णवतिपरत्वेन द्वेधा व्याख्यायैकत्र
वचनमन्यत्र गुरुमुखागम एवोत्तरग्रन्थे प्रमाणमुपन्यस्तम्।
इदं तु सुवचम् - श्रीचक्रेणेति चकारात् नवचक्रसङ्ख्यामेकनवतौ
संमेल्योभयसमुच्चयरूपयांशसङ्ख्यया निरवशेषेण विभागो विधीयत
इति ।
न चैकनवत्या विभाजकत्वायोगात् तदाधारचक्रनवकमेलनस्य
न्यायसिद्धत्वेन मन्वश्रेऽपि तदाधारचक्रमात्रस्य मेलनेन तावन्मात्रांशे
पञ्चदशसङ्ख्याया विभाजकत्वकल्पने निरवशेषतासंभवात्
धृत्यादिभिः पार्थक्येन विभागः सिद्ध इति वाच्यम् । महात्रिपुरसुन्दर्या
एकनवत्यनन्तर्गतत्वात् तदाधारचक्रस्य तत्र मेलने उपपत्त्यभावेन
नवचक्रसङ्ख्यामेलनस्य वाचनिकत्वाङ्गीकारेणैव निर्वाहादिति दिक् ॥ ९॥
महेशनाथकृतस्य नाथनवरत्नमालिकानाम्नः स्तवस्योपसंहारपूर्वकं
पाठपराणां गुरुभक्तानां श्रीविद्योपासकानां सद्यः परशिवभावप्राप्तिः
फलतीत्याह -
इत्यग्रन्थाद्भास्कररायो नवरत्नै-
र्मालामग्र्यां नाथरहस्यं गमयन्तीम् ।
येषामेषा कण्ठगता ते जगदम्बा
विद्याभ्यासादत्र जनुष्येव महेशः ॥ १०॥
इति श्रीमहेशनाथकृता नाथनवरत्नमाला समाप्ता ।
इतीति । मालास्तोत्रयो रूपकानुगुण्याय
प्रबन्धरचनमालारचनोभयवाचिग्रथिधातुः प्रयुक्तः । नाथरहस्यं
परं रूपम् । अत्र जनुष्येव; अस्मिन्नेव जन्मनि, महेशः; परम- शिवरूपः ।
उक्तं च तन्त्रराजे; ``एवंविधां भावनां यो भावयेत्स महेश्वरः''
इति सर्वं शिवम् ॥ १०॥
इति श्रीमन्नाथनवरत्नमालाभिधास्तुतेः ।
मञ्जूषा भासुरानन्दनाथेनाकारि गुप्तये ॥
इति श्रीमत्पदवाक्यप्रमाणपारावारपारीणधुरीणनिखिल-
तन्त्रस्वतन्त्रश्रीमद्गम्भीरराजभारतीदीक्षितसूनुना
भासुरानन्दनाथदीक्षाभिधानेन भास्कररायेण विरचिता
श्रीनाथनवरत्नमालाव्याख्या मञ्जूषा समाप्ता ।
Encoded and proofread by Sunder Hattangadi