नवरत्नमाला
लोकं समस्तमपि मोहमहान्धकार-
नश्यत् दृशं भवमहाजलधौ पतन्तम् ।
स्वोक्त्यञ्जनेन समपालयदाशु यः सः
दृग्गोचरो भवतु देशिकराण्ममाशु ॥ १॥
पाषण्डमुख्यमतकुम्भिषु केसरीन्द्रः
पापाटवीदवविभावसुरानतानाम् ।
अद्वैतवारिनिधिपूर्णशशी च यः सः
दृग्गोचरो भवतु देशिकराण्ममाशु ॥ २॥
शब्दादिमान् हि विषयान्विषतुल्यकक्ष्यान्
ज्ञात्वापि तत्र बहुरागवतो ममाशु ।
पादानताखिलजनस्य विरक्तिदाता
दृग्गोचरो भवतु देशिकसार्वभौमः ॥ ३॥
श्रीमन्नृसिंहगुरुपादयुगाब्जभृङ्गः
सीमाविलङ्घिधिषणोऽखिलशास्त्रवेत्ता ।
नम्रान्तरान्ध्यविनिवारणचण्डरश्मिः
दृग्गोचरो भवतु देशिकराण्ममाशु ॥ ४॥
कामादिशृङ्गिपरिभेदनवज्रपाणिः
नामावधूतनिखिलाघचयो महस्वी ।
सामादिशीर्षपरिगीतनिजस्वरूपः
दृग्गोचरो भवतु देशिकराण्ममाशु ॥ ५॥
आश्रामवासिवटुमेकमभाषमाणं
सम्भाषमाणमकरोत्त्वरितं कृपातः ।
श्रीशङ्करार्य इव यः स हि हस्तधात्रीं
दृग्गोचरो भवतु देशिकराण्ममाशु ॥ ६॥
विप्रं ह्यपस्मृतियुतं प्रसमीक्ष्य तस्य
मूर्ध्न्यङ्घ्रिमादधदपारकृपाम्बुराशिः ।
यो दक्षिणास्य इव रोगमपानुदत्तं
दृग्गोचरो भवतु देशिकराण्ममाशु ॥ ७॥
ऊर्ध्वस्थलान्निपतितां गृहगोधिकां यः
त्यक्तासुमाशु करकाम्बुकणेन सिक्त्वा ।
सोऽजीवयञ्जनसमक्षममेयशक्तिः
दृग्गोचरो भवतु देशिकराण्ममाशु ॥ ८॥
मर्त्याचिकित्स्यबहुकुष्ठनिपीडितं यः
विप्रं हि कञ्चन तदामयहीनमाशु ।
चक्रे स दत्त इव केवलभस्मदानात्
दृग्गोचरो भवतु देशिकराण्ममाशु ॥ ९॥
इति श्रीजगद्रुरु श्रीशृङ्गेरीपीठाधिप श्रीचन्द्रशेखरभारती
श्रीपादैः विरचिता नवरत्नमाला सम्पूर्णम् ।
Proofread by Aruna Narayanan narayanan.aruna at gmail.com