नरसिंहसरस्वतीस्तोत्रम्
%१२६
(वेदनिवेदनिस्तोत्रम्)
विजय तेऽज यते जयते यतेरिह तमो हतमोहतमो नमः ।
हृदिकदाय पदाय सदा यदा तदुदयो न दयोनवियोनयः ॥ १॥
उदयतेऽनयतेर्न यतेर्यदा मनसि कामनिकामगतिस्तदा ।
पदुदयो हृदयौकसि ते सिते भवति योऽवति योगिवराऽवरान् ॥ २॥
भवति भावभवोऽवभवो यदा भवति कामनिकामहतिस्तदा ।
भवति मानवमानवदुत्तमे भवतिरोधिरतो विरतोत्तमे ॥ ३॥
तव सतां वसतां मनसाऽनसा प्रपदयोः पदयोरजसाञ्जसा ।
सुसहितस्सहितस्तव तावता यदवतारवता जनताविता ॥ ४॥
कृतफलं तु विहाय विहायसा सममजं भजतामज तामसात् ।
मिलति तारकमत्र कमत्रसत्पदरजो भ्रमहारि महारि सत् ॥ ५॥
तदजरामर कोशविलक्षणं सदज धीगुणवेत्तृ कलक्षणम् ।
भुवनहेत्वघहृत्त्रिपुरादिकं तव न जातु पदं कुपुराधिकम् ॥ ६॥
विविधभेदपरं सम दृश्यते त्रिविधवेदपरं कमदृश्य ते ।
पदमिदं सदु चिद्घनमुद्धियासदनिदं प्रजहात्यघनुद्धिया ॥ ७॥
अजनमोहनमोह नमो ह नः प्रिय नियोजय तेन यतेन ते ।
य इह वेदनिवेदनि वेद वेत्त्यजपदं जपदन्तपदं पदम् ॥ ८॥
इति श्रीवासुदेवानन्दसरस्वतीविरचितं वेदनिवेदनिस्तोत्रं सम्पूर्णम् ।