श्रीनरहर्यानन्दाचार्याष्टकम्
चिन्तकानां च रामस्य शिरोमणिमनुत्तमम् ।
नृहर्यानन्दमीडेऽहं द्वाराचार्यं जगद्गुरुम् ॥ १॥
आश्रितानां च लोकानां कल्याणकल्पपादपम् ।
नृहर्यानन्दमीडेऽहं द्वाराचार्यं जगद्गुरुम् ॥ २॥
आनन्दभाष्यबोद्धारं भक्तिदानेन मुक्तिदम् ।
नृहर्यानन्दमीडेऽहं द्वाराचार्यं जगद्गुरुम् ॥ ३॥
रामानन्दीयधर्मस्य महाविस्तारकारकम् ।
नृहर्यानन्दमीडेऽहं द्वाराचार्य जगद्गुरुम् ॥ ४॥
अनन्तानन्दशिष्यं च तुलसीदाससद्गुरुम् ।
नृहर्यानन्दमीडेऽहं द्वाराचार्यं जगद्गुरुम् ॥ ५॥
योगीन्द्रसिद्धभूपालप्राज्ञवृन्दोपसेवितम् ।
नृहर्यानन्दमीडेऽहं द्वाराचार्यं जगद्गुरुम् ॥ ६॥
मन्त्रार्थानां त्रयाणां च शिक्षकं शान्तिरक्षकम् ।
नृहर्यानन्दमीडेऽहं द्वाराचार्यं जगद्गुरुम् ॥ ७॥
दत्त्वा च पञ्च संस्कारान् सद्भक्तियोग्यताप्रदम् ।
नृहर्यानन्दमीडेऽहं द्वाराचार्यं जगद्गुरुम् ॥ ८॥
इति श्रीनरहर्यानन्दाचार्याष्टकं सम्पूर्णम् ।
Encoded and proofread by Mrityunjay Pandey