नक्षत्रमालिकास्तोत्रम्
%११३
गोदावर्या महानद्या उत्तरे सिंहपर्वते ।
सुपुण्ये माहुरपुरे सर्वतीर्थसमन्विते ॥ १॥
जज्ञेऽत्रेरनसूयायां प्रदोषे बुधवासरे ।
मार्गशीष्र्यां महायोगी दत्तात्रेयो दिगम्बरः ॥ २॥
मालां कुण्डीं च डमरुं शूलं शङ्खं सुदर्शनम् ।
दधानः षड्भुजैस्त्र्यात्मा योगमार्गप्रवर्तकः ॥ ३॥
भस्मोद्धूलितसर्वाङ्गो जटाजूटविराजितः ।
रुद्राक्षभूषिततनुः शाम्भवीमुद्रया युतः ॥ ४॥
भक्तानुग्रहकृन्नित्यं पापतापार्तिभञ्जनः ।
बालोन्मत्तपिशाचाभः स्मर्तृगामी दयानिधिः ॥ ५॥
यस्यास्ति माहुरे निद्रा निवासः सिंहपर्वते ।
प्रातःस्नानं च गङ्गायां ध्यानं गन्धर्वपत्तने ॥ ६॥
कुरुक्षेत्रे चाचमनं धूतपापेश्वरे तथा ।
विभूतिधारणं प्रातःसन्ध्या च करहाटके ॥ ७॥
कोलापुरेऽस्य भिक्षा च पाञ्चालेऽपि च भोजनम् ।
तिलको विठ्ठलपुरे तुङ्गापानं दिने दिने ॥ ८॥
पुराणश्रवणं यस्य नरनारायणाश्रमे ।
विश्रामो रैवते सायंसन्ध्या पश्चिमसागरे ॥ ९॥
कार्तवीर्यार्जुनायादाद्योगर्धिमुभयीं प्रभुः ।
स्वात्मतत्त्वं च यदवे बहुगुर्वाप्तमुत्तमम् ॥ १०॥
आन्वीक्षिकीमलर्काय प्रह्लादाय च धीमते ।
आयूराजाय च वरान्साध्येभ्यो मोक्षसाधनम् ॥ ११॥
मन्त्रांश्च विष्णुदत्ताय सोमकान्ताय कर्म च ।
स एवाविरभूद्भूयः पूर्वार्णवसमीपतः ॥ १२॥
भाद्रे मासि सिते पक्षे चतुर्थ्यां राजविप्रतः ।
सुमत्यां प्राक्सिन्धुतीरे रम्ये पीठापुरे वरे ॥ १३॥
य आचारव्यवहृतिप्रायश्चित्तोपदेशकृत् ।
निजाग्रजावन्धपङ्गू विलोक्य प्रव्रजन्सुधीः ॥ १४॥
मातापित्रोर्मुदे दृष्टि गतिं ताभ्यामुपानयत् ।
महीं प्रदक्षिणीकृत्य गोकर्णे त्र्यब्दमावसत् ॥ १५॥
ततः कृष्णातटं प्राप्य मर्तुकामां सपुत्रकाम् ।
निवत्र्य ब्राह्मणीं मन्दप्रदोषव्रतमादिशत् ॥ १६॥
तत्पुत्रं विबुधं कृत्वा तस्या जन्मान्तरे प्रभुः ।
पुत्रोऽभूद्यो नरहरिनामको देश उत्तरे ॥ १७॥
करञ्जनगरेऽप्यम्बामाधवद्विजतो विभुः ।
मासि पौषे सिते पक्षे द्वितीयायां शनेर्दिने ॥ १८॥
जातमात्रोऽपि चौङ्कारं प्रपाठायापि मूकवत् ।
सप्ताब्दान्लीलया स्थित्वा नानाकौतुककृत्प्रभुः ॥ १९॥
उपनीतोऽपठद्वेदान्सप्तमे वत्सरे स्वयम् ।
आश्वास्य जननीं पुत्रद्वयदानेन बोधदः ॥ २०॥
काशीं गत्वाष्टाङ्गयोगाभ्यासी कृष्णसरस्वतीम् ।
वृत्वा गुरुं यतिर्भूत्वा वेदार्थान्सम्प्रकाश्य च ॥ २१॥
लुप्तसन्न्यासिधर्मं च तेने तुर्याश्रमोक्तकृत् ।
मेरुं प्रदक्षिणीकृत्य शिष्यान्कृत्वापि भूरिशः ॥ २२॥
पितृभ्यां दर्शनं दत्वा द्विजं शूलरुजार्दितम् ।
कृत्वानामयमाश्वास्य सायन्देवं महामतिम् ॥ २३॥
अब्दं स्थित्वा वैद्यनाथक्षेत्रे कृष्णातटे ततः ।
भिल्लवाट्यां चतुर्मासान्विभुर्गत्वा ततोऽग्रतः ॥ २४॥
नृसिंहवाटिकाक्षेत्रे द्वादशाब्दान्वसन्सुधीः ।
तत्र स्थित्वापि गन्धर्वपुरमेत्यावसन्मठे ॥ २५॥
जीवयित्वा मृतान्दुग्ध्वा वन्ध्यां च महिषीं हरिः ।
विश्वरूपं दर्शयित्वा यतये विश्वनाटकः ॥ २६॥
बह्वीरमानुषीलीलाः कृत्वा गुप्तोऽपि तत्र च ।
य आस्ते भगवान्दत्तः सोऽस्मान्रक्षतु सर्वदा ॥ २७॥
या सप्तविंशतिश्लोकैः कृता नक्षत्रमालिका ।
तद्भक्तेभ्योऽर्पिता भक्ताभिन्नश्रीदत्ततुष्टये ॥ २८॥
द्वादश्यामाश्विने कृष्णे श्रीपादस्योत्सवो महान् ।
माघे कृष्णे प्रतिपदि नरसिंहप्रभोस्तथा ॥ २९॥
इति श्रीवासुदेवानन्दसरस्वतीविरचिता नक्षत्रमालिका सम्पूर्णा ।