श्रीनृसिंहभारतीपादसुवर्णमालास्तवराजः
ओङ्कारमन्त्रराजप्रजपनसंसक्तमानसाम्भोजान् ।
त्रिजगच्छ्लाघितचरितान्वन्दे नरसिंहभारतीपादान् ॥ १॥
नवनवकवित्वजननप्रणवान्मूकेऽपि पादनम्रजने ।
नयनजितारुणकञ्जान्वन्दे नरसिंहभारतीपादान् ॥ २॥
मोहनिवारणचतुराञ्छ्रुत्यन्तार्थप्रबोधकैर्वचनैः ।
मोदितनतनरनिकरान्वन्दे नरसिंहभारतीपादान् ॥ ३॥
नृपपशुपजडविदग्र्यप्रस्तरकलधौतसमहृदम्भोजान् ।
नृहरिपदार्चनसक्तान्वन्दे नरसिंहभारतीपादान् ॥ ४॥
सिंहधुरन्धरहृदयान्कामक्रोधेभगर्वनिर्भेदे ।
सिन्दूरशोणवसनान्वन्दे नरसिंहभारतीपादान् ॥ ५॥
हरिहरसमानबुद्धीन्विरहविहीनांश्चिदात्मताबुद्ध्या ।
हसितजितकुन्दकान्तीन्वन्दे नरसिंहभारतीपादान् ॥ ६॥
भागीकृतपुण्यौघान्सुहृदरिवर्गे क्रमेण निःशेषम् ।
भारतजनपुण्यनिधीन्वन्दे नरसिंहभारतीपादान् ॥ ७॥
रत्नलसत्कुक्षिगणेट् चन्द्रशिरःशारदाम्बिकार्चनतः ।
रचितजगच्छुभपङ्कीन्वन्दे नरसिंहभारतीपादान् ॥ ८॥
त्यै प्र्याद्यायै येषां न भवन्तीशाजहरिपदान्यपि भो ।
तांस्तूलीकृतविश्वान्वन्दे नरसिंहभारतीपादान् ॥ ९॥
जगदाचार्यनृसिहप्रसादलेशात्तबुद्धिकणिकेन ।
शिष्यब्रुवेण तेषां रचितः स्तव एष जयतु तत्कृपया ॥ १०॥
इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचितः श्रीनरसिंहभारतीपादसुवर्णमालास्तवराजः
सम्पूर्णः ।
Proofread by PSA Easwaran