श्रीनीलस्तोत्रम् अथवा चन्द्रकृतं नीलनागराजस्तोत्रम्
॥ अथ श्रीनीलस्तोत्रम् ॥
चन्द्रदेव उवाच -
नमस्ते नागराजेन्द्र नील नीलोत्पलद्युते ।
नीलमेघचयप्रेक्ष नीलतोलकृतालय ॥ १॥
फणानां त्वं शतैर्नाग शैभसे सप्तभिः सदा ।
सप्तसप्तिरिवार्चिस्माव्राजसे त्वं गभस्तिभिः ॥ २॥
त्वं नील नीलभ विनीतपापैर्देवेश देवैरपि नेक्ष्यसे त्वम् ।
नागेन्द्र भोगीन्द्र इवाम्बरस्थो ध्यानेन् विद्वद्भिरपीहमानः ॥ ३॥
त्वं नील योगेश इवासनस्थो वेदार्थविद्भिर्विविधैर्विधानैः ।
संसारकार्येषु सुरायकृद्भिराराध्यसे मोक्षफलाय विप्रैः ॥ ४॥
नागेश नीलार्चिरिवामरेशैर्विज्ञायसे सूर्य इवाम्बरस्थः ।
त्वं नील नीलार्चिरिवोज्ज्वलश्च सुभक्तकार्याणि विधास्यमानः ॥ ५॥
दृष्टो मया कारणमेव देव भूमीसकाशात्पतता बलेन ।
स्मृतोर्चितो मोचय मेऽतिदुःखात्त्रायस्व मां भोगिपते नमस्ते ॥ ६॥
त्वं नील नीरौघचयप्रकाशो विराजसे विष्णुरिवामरेशः ।
विधिर्विधाता रमसे फणीश त्वां वासुदेवं प्रणतोऽमि नित्यम् ॥ ७॥
त्वां नीलनीलाम्बर नीलनत्रमाकाशवत्सर्वगतं सुरेशम् ।
ध्यायन्नरो योऽप्यजितेन्द्रियो वा नागेन्द्र मुच्येत तव प्रसादात् ॥ ८॥
नील त्वामेव वेदार्थे जगुर्वेदाः सनातनम् ।
देवं बहु मुमुक्षूणां कामिनां चार्तसाधनम् ॥ ९॥
त्वत्प्रकाशं यतो ब्रह्म निर्मलं निष्फलं परम् ।
सूक्श्मतो व्योमनिर्दिष्टं सर्वगात्रैरकृत्रिमम् ॥ १०॥
अकिंचनो वदान्यस्त्वमति सूक्श्मोऽसि च पृथुः ।
अर्थाश्रयो महार्थस्त्वं स्तव्यस्तस्याक्शरस्य च ॥ ११॥
कुद्रूः पुत्र सहस्रेण नागराजेन्द्रशोभिता ।
त्वया तु राजतेऽत्यर्थं विष्णुनैवादितिर्यथा ॥ १२॥
त्वमेव तपसाऽत्यर्थं तथा विद्योतसे प्रभो ।
तोयं हिमं शीकरांश्च तथा मुञ्चसि धार्मिक ॥ १३॥
प्रजापतिः कश्यपो हि सर्वभूतपिता प्रभुः ।
त्वया तु शोभतेऽत्यर्थं पुत्रेणात्यन्तधार्मिकः ॥ १४॥
त्वयि धर्मश्च सत्यं च क्शमा च सततं प्रभो ।
देवासुरविमर्देषु शतशोऽथ सहस्रशः ॥ १५॥
त्वया विनिहता दैत्या देवब्राह्मणकण्टकाः ।
वरदस्त्वं वरेण्यश्च बलारिर्बलहा विभुः ॥ १६॥
भक्तानुकम्पी भक्तश्च देव देवे जनार्दने ।
तस्यातिदयितश्चासि यथा नागः स वासुकिः ॥ १७॥
धनदस्ते सखा नाग यथा शर्वस्य नित्यदा ।
धनदश्चासि भक्तानां धनेश इति विश्रुतः ॥ १८॥
नागानां त्वं गतिर्नित्यं देवानामिव वासवः ।
भक्तिमानस्मि ते नित्यं त्वं च जानासि धार्मिक ॥ १९॥
॥ इति श्रीनीलमतपुराणे नीलस्तोत्रम् अथवा चन्द्रकृतं नीलनागराजस्तोत्रम्
सम्पूर्णम् ॥
Encoded and proofread by Ankur Nagpal ankurnagpal108 at gmail.com
NA, PSA Easwaran