श्रीनारदस्तोत्रम्
उग्रसेन उवाच -
कृष्ण प्रवक्ष्यामि त्वामेकं संशयं वद तं मम ॥ १॥
योऽयं नाम महाबुद्धिर्नारदो विश्ववन्दितः ।
कस्मादेषोऽतिचपलो वायुवद्भ्रमते जगत् ॥ २॥
कलिप्रियश्च कस्माद्वा कस्मात्त्वय्यतिप्रितिमान् ॥ ३॥
श्रीकृष्ण उवाच -
सत्यं राजंस्त्वया पृष्ठमेतत्सर्वं वदामि ते ।
दक्षेण तु पुरा शप्तो नारदो मुनिसत्तमः ॥ ४॥
सृष्टिमार्गात्सुतान् वीक्ष्य नारदेन विचालितान् ।
नाऽवस्थानं च लोकेषु भ्रमतस्ते भविष्यति ॥ ५॥
पैशुन्यवक्ता च तथा द्वितियानां प्रचालनात् ।
इति शापद्वयं प्राप्य द्विविधाऽऽत्मजचालनात् ॥ ६॥
निराकर्तुं समर्थोऽपि मुनिर्मेने तथैव तत् ।
एतावान् साधुवादो हि यतश्च क्षमते स्वयम् ॥ ७॥
विनाशकालं चाऽवेक्ष्य कलिं वर्धयते यतः ।
सत्यं च वक्ति तस्मात्स न च पापेन लिप्यते ॥ ८॥
भ्रमतोऽपि च सर्वत्र नाऽस्य यस्मात्पृथङ्मनः ।
ध्येयाद्भवति नैवस्याद्भ्रमदोषस्ततोऽस्य च ॥ ९॥
यच्च प्रितिर्मयि तस्य परमा तच्छृणुष्व च ॥ १०॥
अहं हि सर्वदा स्तौमि नारदं देवदर्शनम् ।
महेन्द्रगदितेनैव स्तोत्रेण शृणु तन्नृप ॥ ११॥
॥ अथ श्रीनारद स्तोत्रम् ॥
श्रुतचारित्रयोर्जातो यस्याऽहन्ता न विद्यते ।
अगुप्तश्रुतचारित्रं नारदं तं नमाम्यहम् ॥ १॥
अरतिक्रोधचापल्ये भयं नैतानि यस्य च ।
अदीर्घसूत्रं धीरं च नारदं तं नमाम्यहम् ॥ २॥
कामाद्वा यदि वा लोभाद्वाचं यो नाऽन्यथा वदेत् ।
उपास्यं सर्वजन्तूनां नारदं तं नमाम्यहम् ॥ ३॥
अध्यात्मगतितत्त्वज्ञं क्षान्तं शक्तं जितेन्द्रियम् ।
ऋजुं यथाऽर्थवक्तारं नारदं तं नमाम्यहम् ॥ ४॥
तेजसा यशसा बुद्ध्या नयेन विनयेन च ।
जन्मना तपसा वृद्धं नारदं तं नमाम्यहम् ॥ ५॥
सुखशीलं सुखं वेषं सुभोजं स्वाचरं शुभम् ।
सुचक्षुषं सुवाक्यञ्च नारदं तं नमाम्यहम् ॥ ६॥
कल्याणं कुरुते गाढं पापं यस्य न विद्यते ।
न प्रीयते परानर्थे योऽसौ तं नौमि नारदम् ॥ ७॥
वेदस्मृतिपुराणोक्तधर्मे यो नित्यमास्थितः ।
प्रियाप्रियविमुक्तं तं नारदं प्रणमाम्यहम् ॥ ८॥
अशनादिष्वलिप्तं च पण्डितं नालसं द्विजम् ।
बहुश्रुतं चित्रकथं नारदं प्रणमाम्यहम् ॥ ९॥
नाऽर्थे क्रोधे च कामे च भूतपूर्वोऽस्य विभ्रमः ।
येनैते नाशिता दोषा नारदं तं नमाम्यहम् ॥ १०॥
वीतसम्मोहदोषो यो दृढभक्तिश्च श्रेयसि ।
सुनयं सत्रपं तं च नारदं प्रणमाम्यहम् ॥ ११॥
असक्तः सर्वसङ्गेषु यः सक्तात्मेति लक्ष्यते ।
अदिर्घसंशयो वाग्मी नारदं तं नमाम्यहम् ॥ १२॥
न त्यजत्यागमं किञ्चिद्यस्तपो नोपजीवति ।
अवन्ध्यकालो यस्यात्मा तमहं नौमि नारदम् ॥ १३॥
कृतश्रमं कृतप्रज्ञं न च तृप्तं समाधितः ।
नित्यं यत्नात्प्रमत्तं च नारदं तं नमाम्यहम् ॥ १४॥
न हृष्यत्यर्थलाभेन योऽलोभे न व्यथत्यपि ।
स्थिरबुद्धिरसक्तात्मा तमहं नौमि नारदम् ॥ १५॥
तं सर्वगुणसम्पन्नं दक्षं शुचिमकातरम् ।
कालज्ञं च नयज्ञं च शरणं यामि नारदम् ॥ १६॥
॥ फलश्रुतिः ॥
इमं स्तवं नारदस्य नित्यं राजन् पठाम्यहम् ।
तेन मे परमां प्रीतिं करोति मुनि सत्तमः ॥ १७॥
अन्योऽपि यः शुचिर्भूत्वा नित्यमेतां स्तुतिं जपेत् ।
अचिरात्तस्य देवर्षिः प्रसादं कुरुते परम् ॥ १८॥
एतान् गुणान् नारदस्य त्वमथाऽऽकर्ण्य पार्थिव ।
जप नित्यं स्तवं पुण्यं प्रीतस्ते भविता मुनिः ॥ १९॥
॥ इति श्रीस्कान्दे महापुराणे प्रथमे माहेश्वरखण्डे नारद
माहात्म्यवर्णने श्रीकृष्णकृत श्रीनारदस्तोत्रं सम्पूर्णम् ॥
Proofread by PSA Easwaran