मातृभूतेश्वराष्टकम्
माता त्वं च पितासि सर्वजगतां माता पिता वा न ते
तस्मात्त्वं भुवि विश्रुतोऽसि भगवंस्त्वं मातृभूतेश्वरः ।
तेन त्वं महिलार्धविग्रह इति ख्यातश्च नाम्नैव ते
तत्वार्थाकलनाय केवलमसौ जागर्ति योगेश्वरी ॥ १॥
सिद्धक्षेत्रमिदं जगत्सुविदितं देवोऽरुणाद्रीश्वरः
सिद्धश्रीरमणीयहस्तविभवाच्छ्रीमातृभूतेश्वरः ।
सिद्धोऽसौ भुवि सिद्धिदस्सह महायोगेश्वरीजायया
पर्याप्तन्त्विदमेतदीयमहिमप्रख्यापने भूजुषाम् ॥ २॥
भीमैर्भोगिवरैर्विभूषिततनुर्यद्यप्यभीतिप्रदः
पूतः प्रेतनिकेतगोऽपि फलदो भिक्षाकएवस्वयम् ।
साकं श्रीरमणेश्वरेण भजतां ध्यानास्पदं योगिनां
सोऽयं चित्रचरित्रको विजयते श्रीमातृभूतेश्वरः ॥ ३॥
भीतो भीमभुजङ्गमैर्न च तथा प्रीतो हिमांशोः करा-
त्पूतो जह्नुसुताजलान्नच न चापूतोऽस्थिसम्भूषणात् ।
नो दुःखी चितिभस्मनः पितृवनावासाच्च योगाम्बिका-
सङ्गान्नापि सुखी समो विषमदृक् श्रीमातृभूतोऽवतु ॥ ४॥
दिग्रूपं वसनं विहाय रुचिरं क्षौमं वसानश्शुभं
हित्वा वासरुचिं श्मशानगहने पुण्याश्रमैकाश्रयः ।
चित्यं भस्म विहाय चन्दनरसैर्माल्यैः कृतालङ्क्रियः
योगाम्बागृहमेधिको विजयते श्रीमातृभूतेश्वरः ॥ ५॥
यच्छक्त्या रमणाश्रमस्थलमिदं भूवासिनां नन्दनं
जातं स्वस्य विचित्रशिल्पिरचनावैचित्र्यचैत्यं महत् ।
शोणाद्रीश्वरसानुगस्स जगतामीशो निरीशस्स्वयं
सर्वैश्वर्यनिधिर्धुनोतु दुरितं श्रीमातृभूतेश्वरः ॥ ६॥
गङ्गाचन्द्रकलाधरोऽसि शिरसि श्रीमातृभूतेश ! ते
वामार्धे करुणारसार्द्रहृदया योगेश्वरी राजते ।
शीताङ्गाश्च भुजङ्गमाः करपदोः किञ्चाभिषेकोऽनिशं
सह्यं शत्यमिदं कथं यदि वसेश्चित्ते न तप्ते मम ॥ ७॥
माताऽभूद्रमणस्य या भगवतस्सौन्दर्यनाम्नी सती
पश्चात् सैव समस्तलोकजननीत्वेनापि सम्पूजिता ।
अद्यत्वे तु विहाय सा परिणता स्त्रीत्वं पुमाकारतो
लिङ्गातिक्रमरूपतश्च लसति श्रीमातृभूतेश्वरः ॥ ८॥
भगवद्रमणाचार्य मातृभूतेश्वरस्तुतिः ।
अर्पिता तत्पदद्वन्द्वे जगदीश्वरशास्त्रिणा ॥ ९॥
इति मातृभूतेश्वराष्टकं सम्पूर्णम् ॥
Proofread by Aruna Narayanan