श्रीकल्याणीदेविविरचिता लघुवायुस्तुतिः
वासुदेवं सदानन्दतीर्थं नन्द-सन्दोह-सन्दानशीलम् ।
स्वामिनं सच्चिदानन्दरूपं नन्दयामो वयं नन्दसूनुम् ॥ १॥
श्रीहनूमन्तमेकान्त-भाजं राघव-श्रीपदाम्भोजभृङ्गम् ।
मारुतिं प्राणिनां प्राणभूतं नन्दयामो वयं नन्दतीर्थम् ॥ २॥
भीमरूपं परं पीवरांसं भारतं भारतश्रीललामम् ।
भूभरध्वंसनं भारतीशं नन्दयामो वयं नन्दतीर्थम् ॥ ३॥
देवचूडामणिं पूर्णबोधं कृष्णपादारविन्दैकदासम् ।
तत्त्वचिन्तामणिं पूर्णरूपं नन्दयामो वयं नन्दितीर्थम् ॥ ४॥
मायिगोमायु-मायान्धकार-ध्वंस-मार्ताण्ड-मूर्तीयमानम् ।
सज्जनानन्द-सन्दोहधेनुं नन्दयामो वयं नन्दितीर्थम् ॥ ५॥
इन्दिरानन्दमानन्द-मूर्तिं सुन्दरीमिन्दिरामिन्दुकान्तिम् ।
नन्दितीर्थं च वन्दे तदिष्टं दासमेकं तथा तत्त्वदीपम् ॥ ६॥
॥ इति श्रीकल्याणीदेविविरचिता लघुवायुस्तुतिः समाप्ता ॥