श्रीलघुशान्तिस्तवः
श्रीमानदेवसूरिसृत्रितः
शान्तिं शन्तिनिशान्तं शातनं शान्ताशीवं नमस्कृत्य ।
स्तोतः शान्तिनिमित्तं मन्त्रपदैः शान्तये स्तौमि ॥ १॥
ओमितिनिश्चितवचसे नमो नमो भगवतेऽर्हते पूजाम् ।
शान्तिजिनायजयवते यशस्विने स्वामिने दमिनाम् ॥ २॥
सकलातिशेषकमहा सम्पत्तिसमन्विताय शस्याय ।
त्रैलोक्यपूजिताय च नमो नमः शान्तिदेवाय ॥ ३॥
सर्वामरसुसमूहस्वामिकसम्पूजिताय न जिताय ।
भुवनजनपालनोद्यननमाय मननं नमम्नम्मै ॥ ४॥
सर्वदुरितौघनाशनकराय सर्वाशिवप्रशमनाय ।
दुष्टग्रहभूतपिशाचशाकिनीनां प्रमथनाय ॥ ५॥ युग्मम् ॥
यस्येतिनाममन्त्रप्रधानवाक्योपयोगकृततोषा ।
विजया कुरुते जनहिनमिति च नुता ! नमत तं शान्तिम् ॥ ६॥
भवतु नमस्ते भगवति ! विजये ! सुजये ! परापरैरजिते ! ।
अपराजिते ! जगत्यां जयतीति जयावहे ! भवति ! ॥ ७॥
सर्वस्यापि च सङ्घस्य भद्रकल्याणमङ्गलप्रददे ! ।
साधूनां च सदा शिवसुतुष्टिपुष्टिप्रदे ! जीयाः ॥ ८॥
भव्यानां कृतसिद्धे ! निर्वृतिनिर्वाणजननि ! सत्त्वानाम् ।
अभयपदाननिरते ! नमोऽस्तु स्वस्तिप्रदे ! तुभ्यम् ॥ ९॥
भक्तानां जन्तूनां शुभावहे ! नित्यमुद्यते ! देवि ! ।
सम्यग् दृष्टीनां धृतिरतिमतिबुद्धिप्रदानाय ॥ १०॥
जिनशासननिरतानां शान्तिनतानां च जगति जनतानाम् ।
श्रीसम्पत्कीर्तियशो वर्धनि ! जयदेवि ! विजयस्व ॥ ११॥ युग्मम् ।
सलिलानलविषविषयधरदुष्टग्रहराजरोगरणभयतः ।
राक्षसरिपुगणमारीचौरेतिश्वापदादिभ्यः ॥ १२॥
अथ रक्ष रक्ष सुशिवं कुरु कुरु शान्तिं च कुरु कुरु सदेति ।
तुष्टिं कुरु कुरु पुष्टिं कुरु कुरु स्वस्तिं च कुरु कुरु त्वम् ॥ १३॥ युग्मम् ॥
भगवति ! गुणवति ! शिवशान्तितुष्टिपुष्टिस्वस्तीह कुरु कुरु जनानाम् ।
ओमिति नमो नमो ह्राँ ह्रीं ह्रूँ यः क्षः ह्रीं फट् फट् स्वाहा ॥ १४॥
एवं यन्नामाक्षरपुरस्सरं संस्तुता जया देवी ।
कुरुते शान्तिं नमतां नमो नमः शान्तये तस्मै ॥ १५॥
इति पूर्वसूरिदर्शितमन्त्रपदविदर्भितः स्तवः शान्तेः ।
सलिलादिभयविनाशी शान्त्यादिकरश्च भक्तिमताम् ॥ १६॥
यश्चैनं पठति सदा शृणोति भावयति वा यथायोगम् ।
स हि शान्तिपदं यायात्सूरिः श्रीमानदेवश्च ॥ १७॥ युग्मम् ॥
इति श्रीमानदेवसूरिसृत्रितः श्रीलघुशान्तिस्तवः समाप्तः ।
Proofread by DPD