श्रीकर्मचन्द्राचार्याष्टकम्
तारकादिरहस्यानां रहस्यज्ञं च बोधकम् ।
कर्मचन्द्रमहं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ १॥
सिंहं वादिगजेन्द्राणां विशिष्टाद्वैतवादिनम् ।
कर्मचन्द्रमहं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ २॥
दुराचारापहर्त्तारं सदाचारप्रचारकम् ।
कर्मचन्द्रमहं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ३॥
आस्तिक्यत्वविधातारं नास्तिकत्वविनाशकम् ।
कर्मचन्द्रमहं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ४॥
रामभक्तिप्रदानेन मुक्तिसौलभ्यकारकम् ।
कर्मचन्द्रमहं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ५॥
रामानन्दीयधर्मस्य रक्षितारं च शिक्षकम् ।
कर्मचन्द्रमहं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ६॥
शिष्याणां पञ्चसंस्कारैर्योग्यतापादकं परम् ।
कर्मचन्द्रमहं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ७॥
आनन्दभाष्यवेत्तारं बुधैः सिद्धैश्च सेवितम् ।
कर्मचन्द्रमहं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ८॥
इति श्रीकर्मचन्द्राचार्याष्टकं सम्पूर्णम् ।
Encoded and proofread by Mrityunjay Pandey