श्रीकरपात्राष्टकम्
केचिद् भजन्ति विबुधा हरिमीशितार-
ञ्चाऽन्ये हरं भवनिदाघहरं श्रयन्ति ।
धर्माऽऽर्तिखिन्नमनसां समुपासनीयं
प्रत्यक्षितं हरिहराद्वयमद्वयन्नः ॥ १॥
सद्राजनीतिनिपुणः किमु विष्णुगुप्तो
वाचस्पतिर्निखिलशास्त्रविचक्षणो वा ।
आहो शुको नु भगवद्गुणगानधन्यो
यस्मिन्नितीव समशायि यतिः स वन्द्यः ॥ २॥
यस्याऽवसन्नवरसा रसने सरस्व-
त्याभान्ति लेखतनवोऽतनुकीर्तिलेखाः ।
चेतस्य भूत्सरसिजोदरसौकुमार्यं
स्मार्यो न कस्य स वशी शयभाजनार्यः ॥ ३॥
वन्द्यः स योऽकृतकृती सुकृतार्थसंस्थाः
रामायणे श्रुतिषु चाऽतत वाक्प्रवाहान् ।
नैष्कर्म्यमूर्ध्वमधिताधिधरं तथापि
कर्मेतराऽकृततरं व्यधिताऽऽप्रयाणम् ॥ ४॥
यः सत्कविर्गुरुगुरुर्बुधमङ्गलात्मा
तीव्रप्रतापतपनश्च सतां च सोमः ।
धर्मद्विषां शनिरथो मदिनाञ्च राहुः
केतुः कलेर्जयति दण्डिवरः स कोऽपि ॥ ५॥
कारागमैः शिरसि दण्डनिपातघातै-
रप्येजनं न जनितं किल यस्य जातु ।
दीपः सनातनसृतेरपि गीष्पतेर्यो
वार्येतरो हृदि विभाति स नः सदाऽऽर्यः ॥ ६॥
तिष्ठेत् प्रणष्टकुहकः सुपथे नरौघः
पारेऽम्बुधिं जनगिरा प्रसरं प्रयातु ।
गावश्चरन्तु परितोऽस्तभया घटोध्न्यः
स्वप्नस्तवेति यतिराट् ! फलिता कदा नु ! ॥ ७॥
यो दण्डिवर्योऽतियतीन्द्रचर्यः
श्रौताऽध्वनोऽभूद्भुवनेषु धुर्यः ।
श्रेयो भृतां शश्वदपीह चार्यो
धार्यः स चित्ते करपात्र आर्यः ॥ ८॥
इति श्रीशशिधरशर्माविरचितं श्रीकरपात्राष्टकं सम्पूर्णम् ।
In praise of Karapatraswami. in Vedarthaparijata introduction.
Encoded and proofread by Megha Jogithaya