कृष्णचैतन्यद्वादशनामस्तोत्रम्
चैतन्यः कृष्णचैतन्यो गौराङ्गो द्विजनायकः ।
यतीनां दण्डिनां चैव न्यासिनां च शिरोमणिः ॥ १॥
रक्ताम्बरधरः श्रीमान् नवद्वीपसुधाकरः ।
प्रेमभक्तिप्रदश्चैव श्रीशचीनन्दनस्तथा ॥ २॥
द्वादशैतानि नामानि त्रीसन्ध्यं यः पठेन्नरः ।
तस्य वाञ्छासुसिद्धिः स्याद्भक्तिः श्रीलपदाम्बुजे ॥ ३॥
इति सार्वभौम भट्टाचार्यविरचितं
कृष्णचैतन्यद्वादशनामस्तोत्रं सम्पूर्णम् ।