श्रीकीलदेवाचार्याष्टकम्
श्रीपयोहारिणः शिष्यं रामानन्दानुयायिनम् ।
वन्देऽहं कीलदेवार्यं द्वाराचार्यं जगद्गुरुम् ॥ १॥
रामानन्दकृतानन्दभाष्याध्यापनतत्परम् ।
वन्देऽहं कीलदेवार्यं द्वाराचार्यं जगद्गुरुम् ॥ २॥
कर्मज्ञानाङ्गिभक्तेर्हि प्रदानान्मुक्तिदायिनम् ।
वन्देऽहं कीलदेवार्यं द्वाराचार्य जगद्गुरुम् ॥ ३॥
तारणाय भवाम्भोधे रामतारकमन्त्रदम् ।
वन्देऽहं कीलदेवार्यं द्वाराचार्यं जगद्गुरुम् ॥ ४॥
वादिवारणशार्दूलं सिद्धेन्द्रं सिद्धिबुद्धिदम् ।
वन्देऽहं कीलदेवार्यं द्वाराचार्यं जगद्गुरुम् ॥ ५॥
सीतारामपदासक्तं सीतारामप्रपत्तिदम् ।
वन्देऽहं कीलदेवार्यं द्वाराचार्यं जगद्गुरुम् ॥ ६॥
तारकादित्रयाणां च व्याख्यातारं बुधोत्तमम् ।
वन्देऽहं कीलदेवार्यं द्वाराचार्यं जगद्गुरुम् ॥ ७॥
मालामुद्रोर्ध्वपुण्ड्रादेर्धारिणं तत्त्ववेदिनम् ।
वन्देऽहं कीलदेवार्यं द्वाराचार्यं जगद्गुरुम् ॥ ८॥
भवोघ्निहननेदक्षं कीलदेवाययोगिने पयोहारि सुशिष्याय द्वाराचार्यं नमाम्यहम् ॥
इति श्रीकीलदेवाचार्याष्टकं सम्पूर्णम् ।
Encoded and proofread by Mrityunjay Pandey