काथबोधः
(दत्तात्रेयसम्प्रदायाऽनुगतः)
श्रीगणेशाय नमः ।
वागर्याऽऽत्मा सर्वभूतान्तरात्मा
वक्ता श्रोता विश्वरूपश्चिदात्मा ।
सर्वावासश्चैको नित्योपलब्धि-
र्यः सन्तोषानन्ददस्तं भजेऽहम् ॥ १॥
नत्वा हंसं सद्गुरुं तं परेशं
शुद्धं व्यक्तं भार्गवारण्यवासम् ।
ईशादीनामष्टकं पूर्वजानां
वक्ष्यामेनं सत्त्वदं काथबोधम् ॥ २॥
कश्चिच्छिष्यः सङ्गदोषैर्विमूढः
क्रोधेनाऽसौ तप्तरूपो बभूव ।
ऐशात्मा अनीशवत्सोऽपि जातः
स्वात्मत्यागाच्चैत्यस्ङ्गोन्मुखत्वात् ॥ ३॥
बद्ध्वा पाणी तप्तकायो बभाषे
काथावस्थां विश्वविश्वान्तकाले ।
क्रोधघ्नाऽस्याः काथविद्या परान्या
शान्तिः काथेत्यादिसर्वं वदस्व ॥ ४॥
का वै विश्वो यः क्यभावे सेवेद्यः
कस्त्वन्या सा काथशब्देन वाच्या
काक्यौ लुप्ते यत्र ते योगिलक्ष्ये
तत्त्वन्त्वेक काथवेत्ताऽवशिष्टः ॥ ५॥
काशब्दोऽयं वाच्यकायी हृदिस्थ-
स्तस्यावासं कायमाहुर्मुनीन्द्राः ।
तदुभयं कायिकायौ व काथौ
तत्त्वन्त्वेकः काथवेत्ताऽवशिष्टः ॥ ६॥
नाहं काक्यौ तौ क्षरौ चाक्षरो भो!
ज्ञात्वा ज्ञाता चैक्यलिङ्गं त्यज त्वम् ।
वाच्ये त्यक्त्वा लक्ष्ययौरैक्यशुद्धं-
तत्त्वन्त्वेकः काथवेत्ताऽवशिष्टः ॥ ७॥
लोकालोको यस्य सिद्ध्या प्रलुप्तौ
शीतोष्णे ते सप्रभे द्वे प्रलीने ।
आ आद्यन्तौ साभिमानौ प्रणष्टौ
तत्त्वन्तेकः काथवेत्ताऽवशिष्टः ॥ ८॥
भूरापोग्निर्वायुखे मानसन्त-
द्बुद्ध्यात्मा वै षोडशान्ये विकाराः ।
शुद्धस्त्वं यः प्राकृतः पञ्चविंश-
स्तत्त्वन्त्वेकः काथवेत्ताऽवशिष्टः ॥ ९॥
द्रष्टा दृश्यं दर्शनं लुप्तं
सत्संवित्त्या योगिभिश्चानुभूतम् ।
वेदे गीतं नेति नेतीति शब्दै-
स्वत्त्वन्त्वेकः काथवेत्ताऽवशिष्टः ॥ १०॥
अस्मद्युष्मद्वाच्यबाह्यान्तरे द्वे
स्थूलं सूक्ष्मं कारणं सच्चासच्च ।
यस्मिन्नेव मायया कल्पितं वै
तत्त्वन्त्वेकः काथवेत्ताऽवशिष्टः ॥ ११॥
व्यक्ते दृश्यादृश्यधर्मेऽथ भावे
सन्मात्रन्त्वं स्वानुभूत्या भवेयम् ।
शून्यङ्कृत्वा शून्यमेतच्च चित्त्वा-
च्चिद्रूपं त्वं काथवेत्ताऽवशिष्टः ॥ १२॥
अन्तर्बाह्ये चित्त्वसत्त्वे त्यज द्वे
स्वानन्दैक्यं केवलं त्वम्भव स्वम् ।
तद्रूपत्वादद्वयं तत्त्वन्तत्त्व-
वेत्ता कोऽस्मिन्कस्य वेत्तृत्वमस्ति ॥ १३॥
एवम्भूते शुद्धबुद्धे स्वरूपे
काथावस्थां ब्रूहि मे त्वम्प्रबुद्धः ।
काथावेत्ता कोऽहमित्यात्मबाधः
निःसङ्गेऽस्मिन्नुत्थिता त्वय्यविद्या ॥ १४॥
शून्यालम्बाऽलम्बनं सा भवेत्ते
सूर्याभायां वारिभासस्तथेयम् ।
भिन्नाभिन्ना नैव तस्मादवाच्या
जह्येनां स्वामद्वयानन्दबोधात् ॥ १५॥
वेद्याभावे कस्य वेत्ताऽत्र कोऽसौ
वक्ष्याम्यस्मिन्भाषणं मे शृणु त्वम् ।
काथेत्यस्याः सा न भाति त्वमेकः
सद्बोधार्थं वाक्यमेतत्प्रवृत्तम् ॥ १६॥
सन्मात्रोऽहं सत्तया सर्वमेकः
क्रोधघ्नाऽस्याः काथविद्यापराऽन्या ।
चिन्मात्रोऽहं चित्स्वरूपश्चिदात्मा
सृष्ट्यन्तानां साक्षिरूपोऽव्ययोऽहम् ॥ १७॥
एवं भूते काऽथ शुद्धास्त्यवस्था
व्यक्ताव्यक्तातीतमन्तर्बहिःस्थम् ।
व्यक्ताव्यक्तं तन्न बाह्यान्तरे द्वे
मौनेनाऽयं वाचकस्त्र्यक्षरोऽस्य ॥ १८॥
आत्मा शब्दो बिन्दुनादान्वितोऽयं
शक्त्या साकं मायिकेनैव शान्तः ।
निर्वाणं तत्केवलाऽनन्दबोध-
मेवम्भूता काथशान्तिः परात्मा ॥ १९॥
धर्मं कृत्वा माऽस्तु ते तत्फलेप्सा
त्यक्त्वा त्रित्वं तूर्यधर्मे रमस्व ।
भूतेभ्यः कमानन्दं त्वम्भवस्व
मानं त्यक्त्वा स्वस्वसिद्धोऽनपेक्षः ॥ २०॥
कस्याऽपेक्षां मा कुरु त्वं समात्मा
क्षन्तव्यास्ते तर्ज्जना दारुस्ताः ।
साङ्ख्ये योगे लौकिके सप्रपञ्चे
कृष्णविष्णुं(?)जिष्णुशर्वं वद त्वम् ॥ २१॥
सर्वैः खैस्तैर्देहगेहेन चाऽर्थै-
र्वन्दस्व त्वं रुक्मिणीशं परेशम् ।
द्रोहं लोभं मुञ्च दम्भमसूयां
दुर्बुद्धे त्वं स्वरूपञ्च भजेदम् ॥ २२॥
निःसङ्गस्त्वं सङ्गमात्सज्जनानां
निष्कामस्त्वं सेवया निःस्पृहाणाम् ।
गाङ्गं पीत्वा सोमपस्त्वं भवस्व
शुद्धो भूत्वा शुद्धखं तद्भजस्व ॥ २३॥
नत्वा साधून्योगिनो देवसिद्धान्
सर्वर्षीस्तानर्यमादीन् गुरून् भो ।
विश्वाधारं रुक्मिणीशं शिवेशं
नत्वा ज्ञातः काथबोधः समाप्तः ॥ २४॥
श्रुत्वा त्वेनं शान्तरूपो बभूव
सद्ग्रन्थनं काशकं मुक्तिमार्गे ।
योगीन्द्राणां सद्रहस्यञ्च गुह्यं
सन्तोषान्तर्व्यापकेनैव गीतम् ॥ २५॥
अनादिनिधनो देवः सर्वव्यापी निरञ्जनः ।
हृदयस्थः स्वयं वक्ता कर्त्ता कारयिता हरिः ॥ २६॥
इति श्रीमत्सन्तोषानन्दविरचितः काथबोधः सम्पूर्णः ।
Encoded and proofread by Sunder Hattangadi