श्री कार्तवीर्यार्जुन मालामन्त्रः
श्री सरस्वत्यै नमः । श्रीगणेशाय नमः ।
ॐ अस्य श्रीकार्तवीर्यार्जुनमालामन्त्रस्य दत्तात्रेयो भगवान् ऋषिः,
गायत्री छन्दः, श्रीकार्तवीर्यार्जुनो देवता, कृतवीर्यो बीजम्,
सहस्रबाहुः शक्तिः, अव्याहतः कीलकम्,
कार्तवीर्यार्जुनप्रसादसिद्ध्यर्थे जपे विनियोगः ।
ऋष्यादि न्यासः -
श्रीदत्तात्रेय ऋषये नमः शिरसि । गायत्री छन्दसे नमः मुखे ।
श्रीकार्तवीर्यार्जुनदेवतायै नमः हृदि । अभीष्टसिद्ध्यर्थे जपे विनियोगाय नमः सर्वाङ्गे ।
पञ्चाङ्ग न्यासः -
श्रीदत्तात्रेयप्रियतमाय हृदयाय नमः । महिष्मतीनाथाय शिरसे स्वाहा ।
रेवानदीजलक्रीडातृप्ताय शिखायै वषट् । हैहयाधिपतये कवचाय हुं ।
सहस्रबाहवे अस्त्राय फट् ।
अथ ध्यानम् -
दोर्दण्डेषु सहस्रसम्मिततरेष्वेतेष्वजस्रंलसत्-
त्कोदण्डैश्च शरैरुदग्रनिशितैरुद्यद्विवस्वत्प्रभः ।
ब्रह्माण्डं परिपूरयन्तमखिलं गण्डद्वयान्दोलित
द्योतत्कुण्डलमण्डितो विजयते श्रीकार्तवीर्यो विभुः ॥
(उदग्रबाणाँश्चापानि दधतं सूर्यसन्निभं
प्रपूरयन्तं ब्रह्माण्डं धनुर्ज्यानिःस्वनैस्तथा ।
कार्तवीर्यं नृपं ध्यायेद्गण्डशोभितकुण्डलं
एवं ध्यात्वा समभ्यर्च्य सर्वकर्माणि साधयेत् ॥)
अथ मालामन्त्रः -
ॐ नमो भगवते कार्तवीर्यार्जुनाय हैहयाधिपतये
सहस्रकवचाय सहस्रकरसदृशाय (सहस्रकररद्यराय)
सर्वदुष्टान्तकाय सर्वशिष्टेष्टाय ।
सर्वत्र उदधेरागन्तुकामानस्मद्वस्तुविलुपकान् ।
चोरसमूहान् स्वकरसहस्रैः निवारय निवारय ।
उज्ज्वलसहस्रैः बन्धय बन्धय
अङ्कुशसहस्रैराकर्षय आकर्षय
स्वचापोद्गतैर्बाणसहस्रैः भिन्धि भिन्धि
स्वहस्तोद्गतखट्वाङ्गसहस्रैश्छिन्दि छिन्दि
स्वहस्तोद्गतमुसलसहस्रैर्मर्दय मर्दय
स्वशङ्खोद्गतनादसहस्रैर्भीषय भीषय
स्वहस्तोद्गतचक्रसहस्रैः चूर्णय चूर्णय (निकृन्तय निकृन्तय)
परकृत्यां त्रासय त्रासय गर्जय गर्जय आकर्षय आकर्षय
भ्रामय भ्रामय मोहय मोहय मारय मारय उद्वासय उद्वासय
उन्मादयोन्मादय तापय तापय विनाशाय विनाशाय
तापय विदारय तापय विदारय
स्तम्भय स्तम्भय जृम्भय जृम्भय वारय वारय
वशीकुरु वशीकुरु उच्चाटयोच्चाटय विनाशय विनाशय
श्रीदत्तात्रेय श्रीपादप्रियतम कार्तवीर्यार्जुन
सर्वत्रोदधेरागन्तुकामानस्मद्वस्तुविलुम्पकान्
समुन्मूलयोन्मूलय हुं फट् स्वाहा ॥
अनेन मन्त्रराजेन सर्वकामांश्च साधयेत् ।
मालामन्त्रजपाच्चोरान् मारींश्चैव विशेषतः ।
क्षपयेत्क्षोभयेच्चैवोच्चाटयेन्मारयेत्तथा ।
वशयेत्तत्क्षणादेव त्रैलोक्यमपि मन्त्रवित् ॥
इति श्रीकार्तवीर्यार्जुनमालामन्त्रः सम्पूर्णः ।