श्रीकार्कोटकम्
त्रिभुवनजयविहारी विहरतु हृदि वो महाकालः ।
गिरिवरतनयाकुचतटविलुठितनयनत्रयीसुभगः ॥ १॥
कार्कोटकेश्वरो जीयादर्ककोटिनिभप्रभः ।
कर्कशेतरसौभाग्यतर्कदुर्ग्रहविग्रहः ॥ २॥
कार्कोटकेश्वरस्यास्तु स्वस्ति तस्यै वपुःश्रियै ।
कर्कोटकादयो यस्यै शेषेण सह शेरते ॥ ३॥
कार्कोटकेश्वरं पश्य करुणावरुणालयम् ।
लक्ष्मीविलोकिते यस्य विषं कण्ठे विजृम्भते ॥ ४॥
कार्कोटकेश्वरो देवः कामान् कस्य न वर्षति ।
कामदाहमनुस्मृत्य पश्चात्तापवशादिव ॥ ५॥
कार्कोटकेश्वरं नाम कल्पकद्रुममाद्रिये ।
कनं किसलयं यस्य कराङ्घ्रिदशनच्छदम् ॥ ६॥
कार्कोटकेश्वरं वन्दे कन्दं कमपि जन्मिनाम् ।
धन्या यमुपजीवन्ति तपसा क्लान्तमानसाः ॥ ७॥
कार्कोटकेश्वरं देवं के वा कैवल्यवर्षिणम् ।
कामदेहिनमालम्ब्य कृतार्थपदलङ्घिताः ॥ ८॥
कार्कोटकेश्वरं चेतः कदा नु मम गाहते ।
यस्मिन् विस्मयमापन्ना यतयः श्रुतयोऽपि च ॥ ९॥
कार्कोटकेश्वरं धीरा गाहन्ते हन्त चेतसा ।
नादिर्यस्य न चाप्यन्तो नापि मध्यं सुखाम्बुधेः ॥ १०॥
कार्कोटकेश्वरभवं नवरत्नमेतत्
इष्टामभीष्टमभिवर्षतु चाश्रितानाम् ।
किञ्च प्रपञ्चपरिलङ्घिमहासुखोर्मि
मात्मीयमुक्तिमुपदर्शय मोक्षलक्ष्मीम् ॥ ११॥
इति श्रीकृष्णलीलाशुकमहाकविमुनिविरचितं श्रीकार्कोटकं सम्पूर्णम् ।
Note: karkoTakeshvara and kArkoTakeshvara are used
interchangeably in the original.
Proofread by Gopalakrishnan