हरिहरस्तुतिः
हरिभक्ता हयवदनं हरभक्ताः प्रार्थयन्ति गजवदनम् ।
हरिहरभक्तास्तु वयं गुरुवदनं प्रार्थयामहे प्रथमम् ॥ १॥
कपिशरुचिजटामण्डितहिमकरकोटिस्फुरन्मणीमुकुटः ।
अविरलविभूतिसङ्गो बहुमायोमाधवः सुखं दिशतु ॥ २॥
यो ह्यङ्गुलीयकधरो यो हि कटकवांश्च यो हि कुण्डलवान् ।
यः श्यामलाधिकरुचिर्बहुमायोमाधवः सुखं दिशतु ॥ ३॥
निटिललसत्तिलकतया कनकप्रभमध्यनेत्रदेदीप्रः ।
मुग्धस्मरमदहन्ता बहुमायोमाधवः सुखं दिशतु ॥ ४॥
गणनायकतातोऽयं वेदस्तुत्यो न लोकवाग्विषयः ।
कालो वैकुण्ठपदो बहुमायोमाधवः सुखं दिशतु ॥ ५॥
वपुषि कलत्रं वहते सानुमतो यः सुतां न दीनस्य ।
वृषभारोहविलासी बहुमायोमाधवः सुखं दिशतु ॥ ६॥
यस्य सुतश्च स्कन्दः श्रीमान् ब्रह्माण्डमप्यसमबाणः ।
देवाग्रण्यो जितवान् बहुमायोमाधवः सुखं दिशतु ॥ ७॥
क्लृप्त्वा कामपि मायां सन्ध्याविर्भावसमयकौतुकवान् ।
यो बहुधा नटति नटो बहुमायोमाधवः सुखं दिशतु ॥ ८॥
यद्यप्यनन्तनामा शिवनामायं जनैः सदा जप्यः ।
ननु धीवरो ध्रुवोऽभूद् बहुमायोमाधवः सुखं दिशतु ॥ ९॥
वृषभचरो दिग्वसनो जितेन्द्रियो गाङ्गजलधरो धन्वी ।
लिङ्गाकृतिरनलाक्षो धरणिरथः शम्भुरस्ति गोविन्दः ॥ १०॥
चन्द्रान्वयमूर्धन्यो गोपालो गरुडविहरणश्वेति ।
हरिरस्ति विरूपाक्षः पशुपतिरपि चन्द्रशेखरो व्यक्तम् ॥ ११॥
लक्ष्मीवेङ्कटनाम्नोस्तनयः सन् श्रीनिवासाख्यः ।
विप्रो वाजसनेयी स्तुतिमेकोक्त्या चकार हरिहरयोः ॥ १२॥
इति श्रीनिवासविरचिता हरिहरस्तुतिः सम्पूर्णा ।
स्तोत्रसमुच्चयः २ (१००)
Two stotra-s, namely Haristuti (78) and
Hariharastuti (100) of Srinivasa, whose Harastuti
was published in the first volume (pp. 291-2),
are included herein. He was the son of Lakshmi
and Venkata and belonged to the Vajasaneyishakha
and Kaushikagotra. Apart from these stotra-s he
is known to have written several other works.
Proofread by Rajesh Thyagarajan